________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir v तान्सर्वानभिभूय स्वसामर्थ्य विशेषादेवापन्हियते पश्चात्तु कदापत्दृतमिति विमर्शोभवति एवं बहूनां ज्ञानप्रतिबन्धकानां मध्ये विद्यमानोपि योगभ्रष्टः स्वयमनिच्छन्नपि ज्ञानसंस्कारेण बलवता स्वसामर्थ्यविशेषादेव सर्वान् प्रतिबन्धकानभिभूयात्मवशीक्रियतइति त्वृत्रः प्रयोगेण सूचितं अतएव संस्कारप्राबल्यात् जिज्ञासुर्ज्ञातामच्छरपि योगस्य मोक्षसाधनज्ञानस्य विषयं ब्रह्मज्ञानं प्रथमभूमिकायां स्थितः संन्यासीति यावत् सोपि तस्यामेव भूमिकायां मतोन्तराले बहुन विषयान् भुक्त्वा महाराजचक्रवर्तिनां कुले समुत्पन्नोपि योगभ्रष्टः प्रागुपचितज्ञानसंस्कारप्राबल्यान् तस्मिजन्मनि शब्दब्रह्म वेदकर्मप्रतिपादक अतिवर्तते अतिक्रम्य तिष्ठति कर्माधिकारातिक्रमेण ज्ञानाधिकारी भवतीत्यर्थः एतेनापि ज्ञानकर्मसमुच्चयोनिराकृतइति द्रष्टव्यं समुच्चये हि ज्ञानिनापि पूर्वाभ्यासेन तेनैव व्हियते यवशोपि सः॥जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते // 4 // प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्विषः // अनेकजन्मसंसिद्धस्ततोयाति परां गतिम् // 15 // 506052515285251525505051/ कर्मकाण्डातिकमाभावात् // 44 // यदा चैवं प्रथमभूमिकायां मृतोपि अनेकभोगवासनाव्यवहितमपि विविधप्रमादकारणवति महाराजकुंलेपि जन्म लब्ध्वापि योगभ्रष्टः पूर्वोपचितज्ञानसंस्कारप्राबल्येन कर्माधिकारमतिक्रम्य ज्ञानाधिकारी भवति तदा किमुवक्तव्यं द्वितीयायां तृतीयायां वा भूमिकायां मृतीविषयभोगान्ते लब्धमहाराजकुलजन्मा यदि वा भोगमकृत्यैव लब्धब्रह्माविबाह्मणकुलजन्मा योगभ्रष्टः कर्माधिकारातिक्रमेण ज्ञानाधिकारीभूत्वा तत्साधनानि सम्पाद्य तत्फललाभेन संसारबन्धनान्मुच्यतइति तदेतदाह प्रयत्नात्पूवकृतादप्यधिकमधिकं यतमानः प्रयत्नातिरेक कुर्वन् योगी पूर्वोपचितसंस्कारवान् तेनैव योगप्रयलपुण्येन संशुद्धकिल्बिषः धौतज्ञान प्रतिबंधकपापमलः अतएव संस्कारोपचयात्पुण्योपचयाच अनेकैर्जन्मभिः संसिद्धः संस्कारातिरेकेण पुण्यातिरेकेण च प्राप्तचरमजन्मा ततः साधनपरिपाकाद्याति परां प्रकृष्टां गतिं मुक्तिं नास्त्येवात्र कश्चित्संशयइत्यर्थः // 45 // इदानीं योगी स्तूयतेऽर्जुनं प्रति श्रद्धाति-४ For Private and Personal Use Only