________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 9 // शयोत्पादनपूर्वक योग विधातुं तपस्विभ्यः कृचान्द्रायणादितपःपरायणेभ्योपि अधिकउत्कृष्टोयोगी तत्त्वज्ञानोत्पत्त्यनन्तरं मनोनाशवासनाक्षयकारी 'विद्यया तदारोहन्ति यत्र कामाः परागताः न तत्र दक्षिणायान्ति नाविद्वांसस्तपस्विनइति श्रुतेः अतएव कर्मिभ्योदक्षिणासहितज्योतिष्टोमादिकर्मानुष्ठायिभ्यश्वाधिकोयोगी कर्मिणां तपस्विनां चाज्ञत्वेन मोक्षानहत्वात् ज्ञानिभ्योऽपि परोक्षज्ञानवद्भयोऽपि अपरोक्षज्ञानवानधिकोमतोयोगी एवमपरोक्षज्ञानवद्ध्योऽपि मनोनाशवासनाक्षयाभावादजीवन्मुक्तेभ्योमनोनाशवासनाक्षयवत्वेन जीवन्मुक्तीयोग्यधिकोमतः मम संमतोयस्मादेवं तस्मादधिकाधिकप्रयत्लबलात्त्वं योगभ्रष्टइदानीं तत्त्वज्ञानमनोनाशवासनाक्षययुगपत्सम्पादितैोगी जीवन्मुक्तोयः सयोगी परमोमतइति प्रागुक्तः सता तपस्विभ्योऽधिकोयोगी ज्ञानिभ्योऽपि मतोऽधिकः // कमिभ्यश्चाधिकोयोगी तस्माद्योगी भवार्जुन // 46 // योगिनामपि सर्वेषां मद्गतेनान्तरात्मना // श्रद्धावान् भजते योमा समेयुक्ततमोमतः // 17 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्ययां योगशास्त्रे श्रीकष्णार्जुनसंवादे आत्मसंयमयोगोनाम षष्ठोऽध्यायः 6 // theREATREARRERAKAR दृशोभव साधनपरिपाकात् हे अर्जुनेति शुद्धेति संबोधनार्थः // 46 // इदानीं सर्वयोगिश्रेष्ठ योगिनं बदबध्यायमुपसंहरति योगिनां वसुरुद्रादित्यादिक्षुद्रदेवताभक्तानां सर्वेषामपि मध्ये मयि भगवति वासुदेवे पुण्यपरिपाकविशेषागतेन प्रीतिवशानिविष्टेन मद्गतेनान्तरात्मनान्तःकरणेन प्राम्भवीयसंस्कारपाटवात्साधुसङ्गाच मद्भजनएव श्रद्धावानतिशयेन अहधानःसन् भजते सेवते सततं चिन्तयति योमा नारायणमीश्वरश्वरं सगुणं निर्गुणं वा मनुष्योयमीश्वरान्तरसाधारणोयमित्यादिभ्रम हित्वा सएव मद्भक्तोयोगी | युक्ततमः सर्वेभ्यः समाहितचित्तेभ्योयुक्तेभ्यः श्रेष्ठोमे मम परमेश्वरस्य सर्वज्ञस्य मतोनिश्चितः समानेऽपि योगाभ्यासक्लेशे समानेऽपि भजनायासे मनक्तिशून्येभ्योमगतस्यैव श्रेष्ठत्वात्त्वं मद्भक्तः परमोयुक्ततमोनायासेन भवितुं शक्ष्यसीति भावः तदनेनाध्या // 92 // For Private and Personal Use Only