________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. गी.म. सम्पदिति यावत् ततः श्रवणमननपरिनिष्पन्नस्य तत्वज्ञानस्य निर्विचिकित्सतारूपा तनुमानसा नाम तृतीया भूमिका निदिध्यासन | सम्पदिति यावत् चतुर्थी भूमिका तत्त्वसाक्षात्कारएव पञ्चमषष्टमसप्तमभूमयस्तु जीवन्मुक्तेरवान्तरभेदाइति तृतीये प्राग्व्याख्यातं तत्र चतुर्थी भर्मि प्राप्तस्य मृतस्य जीवन्मुक्त्यभावेऽपि विदेहकैवल्यं प्रति नास्त्येव संशयः तदुत्तरभामित्रयं प्राप्तस्तु जीवन्नपि मुक्तः किमु | विदेहइति नास्त्येव भूमिकाचतुष्टये शङ्का साधनभूतभूमिकात्रयेतु कर्मत्यागाज्ज्ञानालाभाच भवति शति तत्रैव प्रभः श्रीवसिष्ठः 'योगभूमिकयोत्क्रान्तजीवितस्य शरीरिणः भूमिकांशानुसारेण क्षीयते पूर्वदुष्कृतं ततः सुरविमानेषु लोकपाल पुरेषु च मेरूपवनकु जेषु रमते रमणीसखः ततः सुकृतसंभारे दुष्कृते च पुराकृते भोगक्षयात्परिक्षीणे जायन्ते योगिनोभुवि शुचीनां श्रीमतां गेहे गुप्ने | गुणवतां सतां जनित्वा योगमेवैते सेवन्ते योगवासिताः तत्र प्राग्भावनाऽभ्यस्तं योगभूमिक्रमं बुधाः दृष्ट्वा परिपतन्त्युभैरुत्तरं भूमिकाक्रमामति / अत्र प्रागुपचितभोगवासनाप्राबल्यादल्पकालाभ्यस्तवैराग्यवासनादौर्बल्येन प्राणोत्क्रान्तिसमये प्रादुर्भूतभोगस्पहः सर्वक्रर्मसन्यासी यः सएवोक्तः यस्तु वैराग्यवासनाप्राबल्यात्मकृष्टपुण्यप्रकटितपरमेश्वरप्रसादवशेन प्राणोत्क्रान्तिसमयेऽनुद्भूतभोगस्पृहः संन्यासी भोगव्यवधानं विनैव ब्राह्मणानामेव ब्रह्मविदां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य प्राक्तनसंस्काराभिव्यक्तरनायासेनैव | 1|संभवानास्ति पर्वस्येव मोक्ष प्रत्याशवेति सवासिष्ठेनोक्तोभगवतात परमकारुणिकैनाथवेति पक्षान्तरं कृत्वोक्तएव स्पष्टमन्यत // 43 // ननु योब्रह्मविदां ब्राह्मणानां सर्वप्रमादकारणशून्ये कुले समुत्पन्नस्तस्य मध्ये विषयभोगव्यवधानाभावादव्यवहितप्राग्भवीयसंस्कारोबो|धात्पुनरपि सर्वकर्मसंन्यासपूर्वकः ज्ञानसाधनलाभोभवतु नाम यस्तु श्रीमतां महाराजचक्रवर्तिनां कुले बहुविधविषयभोगव्यवधानेनोत्पन्नस्तस्य विषयभोगवासनाप्राबल्यात्प्रमादकारणसंभवाच कथमतिव्यवहितज्ञानसंस्कारोबोधः क्षत्रियत्वेन सर्वकर्मसंन्यासानहस्य कथं वा ज्ञानसाधनलाभइति तत्रोच्यते अतिचिरव्यवहित जन्मोपचितेनापि तेनैव पूर्वाभ्यासेन प्रागणितज्ञानसंस्कारेणावशोपि मोक्षसाधनायाप्रयतमानोपि हियते स्ववशीक्रियते अकस्मादेव भोगवासनाभ्योव्युत्थाप्य मोक्षसाधनोन्मुखः |क्रियते ज्ञान वासनायाएवाल्पकालाभ्यस्तायाअपि वस्तुविषयत्वेनावस्तुविषयाभ्योभोगवासनाभ्यः प्राबाल्यात्पश्य यथा त्वमेव युद्धे प्रवृत्तीज्ञानायाप्रयतमानोपि पूर्वसंस्कारप्राबल्यादकस्मादेव रणभूमौ ज्ञानोन्मुखोभूरिति अतएव प्रागुक्तं नेहाभिकमनाशोस्तीति अनेकजन्मसहस्रव्यवहितोपि ज्ञानसंस्कारः स्वकार्य करोत्येव सर्वविरोध्युपमेनेत्यभिप्रायः सर्वकर्मसंन्यासा|| भावपि हि क्षत्रियस्य ज्ञानाधिकारः स्थितएव यथा पाटचरेण बहूनां रक्षिणां मध्ये विद्यमानमपि अश्वादिद्रव्यं स्वयमनिच्छदपि || MERE5251525525152515260555055र. // 91 // For Private and Personal Use Only