________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्तीति परोक्षज्ञानविषयोन भवामि किंतु योगजापरोक्षज्ञानविषयोभवामि यद्यपि वाक्यजापरोक्षज्ञानविषयत्वं त्वंपदार्थाभेदेनैव तथापि केवलस्यापि तत्पदार्थस्य योगजापरोक्षज्ञानविषयत्वमुपपद्यतएव एवं योगजेन प्रत्यक्षेण मामपरोक्षीकुर्वन् सच मे न प्रणश्यति परोक्षोन भवति स्वात्माहि मम सविद्वानतिप्रियत्वात्सर्वदा मदपरोक्षजानगोचरोभवति 'ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्य हमित्युक्तः / तथैव शरशय्यास्थभीष्मध्यानस्य युधिष्ठिर प्रति भगववचनोक्तो अविद्वांस्तु स्वात्मानमपि सन्तं भगवन्तं न पश्यति अतोभगवान् पश्यन्नपि तं न पश्यति 'सएनमविदितान भुनक्तीति' श्रुतेः विद्वांस्तु सदैव सनिहितोभगवतोनुग्रहभाजनमित्यर्थः // 30 // एवं त्वंपदार्थ तत्पदार्थं च शुद्ध निरूप्य तत्त्वमसीति वाक्यार्थ निरूपयति सर्वेषु भूतेष्वधिष्ठानतया स्थित सर्वानुस्यूतसन्मात्रं मामीश्वरं तत्पदलक्ष्यं स्वेन त्वंपदतक्ष्येण सहैकत्वमत्यन्ताभेदमास्थितःसन् घटाकाशोमहाकाशइत्यत्रैवो सर्वभूतस्थितं योमां भजत्येकत्वमास्थितः // सर्वथा वर्तमानोपि सयोगी मयि वतेते // 31 // पाधिभेदनिराकरणेन निश्चिन्वन् योभजति अहं ब्रह्मास्मिति वेदान्तवाक्यजेन तत्त्वसाक्षात्कारणापरोक्षीकरोति सोविद्यातत्कार्यनिवृत्या जीवन्मुक्तः कृतकृत्यएव भवति यावत्तु तस्य बाधितानुवत्त्या शरीरादिदर्शनमनुवर्तते तावत्प्रारब्धकर्मप्राबल्यात् सर्वकर्मत्यागेन वा| याज्ञवल्क्यादिवत् विहितेन कर्मणा वा जनकादिवत् प्रतिषिद्धेन कर्मणा वा दत्तात्रेयादिवत् सर्वथा येनकेनापि रूपेण वर्तमानोपि व्यवहरन्नपि सयोगी ब्रह्माहमस्मीति विडाम्मयि परमात्मन्येवाभेदेन वर्तते सर्वथा तस्य मोक्ष प्रति नास्ति प्रतिबन्धशङ्का 'तस्यह न देवाच नाभूत्या ईशत आत्मा ह्येषां संभवतीति। श्रुतेः देवामहाप्रभावाअपि तस्य मोक्षाभवनाय नेशते किमुतान्ये क्षुद्राइत्यर्थः ब्रह्मविदोनि|षिद्धकर्माण प्रवर्तकयोरागद्वेषयोरसंभवेन निषिद्धकर्मासंभवेपि तदंगीकृत्य ज्ञानस्तुत्यर्थमिदमुक्तं सर्वथा वर्तमानोपीति हत्वापि सइमांलोकान हन्ति न निबध्यतइतिवत् // 31 // एवमुत्पन्नपि तत्त्वबोधे कश्चिन्मनोनाशवासनाक्षययोरभावाज्जीवन्मुक्तिसुखं नानुभवति चित्तविक्षेपेण च नष्टदुःखमनुभवति सोऽपरमोयोगी देहपाते कैवल्यभागित्वान् देहसद्भावपर्यन्तं च दृष्टदुःखानुभवात् तत्त्वज्ञानमनो For Private and Personal Use Only