________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. // 83 // क्षितः अतएवाहवसिष्टः 'हौ क्रमी चित्तनाशस्य योगोज्ञानं च राघव योगोवृत्तिनिरोधोहि ज्ञानं सम्यगवेक्षणं असाध्यः कस्यचिद्योगः कस्य चित्तत्त्वनिश्चयः प्रकारौ हौ ततोदेवोजगाद परमः शिवइति' चित्तनाशस्य साक्षिणः सकाशात्तदुपाधिभूतचित्तस्य पृथक्करणात्तददर्शनस्य तस्योपाययं एकोऽसंप्रज्ञातसमाधिः संप्रज्ञातसमाधौ हि आत्मैकाकारवृत्तिप्रवाहयुक्तमन्तःकरणसत्त्वं साक्षिणाऽनुभयते निरुद्धसर्ववृत्तिकं | तूपशान्तत्वान्नानुभूयतइति विशेषः द्वितीयस्तु साक्षिणि कल्पितं साक्ष्यमनतत्वानास्त्येव साक्ष्येव तु परमार्थसत्यः केवलोविद्यतइति वि| चारः तत्र प्रथममुपायं प्रपञ्चपरमार्थतावादिनोहरण्यगर्भादयः प्रपेदिरे तेषां परमार्थस्य चित्तस्यादर्शनेन साक्षिदर्शने च निरोधातिरिक्तोपायासंभवात् श्रीमच्छङ्करभगवत्पूज्यपादमतोपजीविनस्त्वौपनिषदाः प्रपञ्चानृतत्ववादिनोद्वितीयमेवोपायमुपेयुः तेषां ह्यधिष्ठानज्ञानदाढये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि // ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः // 29 // योमा पश्यति सर्वत्र सर्व च मयि पश्यति // तस्याहं न प्रणश्यामि स च मे न प्रणश्यति // 30 // | सति तत्र कल्पितस्य बाधितस्य चित्तस्य तहदयस्य चादर्शनमनायासेनैवोपपद्यते अतएव भगवत्पूज्यपादाः कुत्रापि ब्रह्मविदां योगापेक्षा न व्युत्पादयांवभूवुः अतएव चौपनिषदाः परमहंसाः औते वेदान्तवाक्यविचारएव गुरुमुपमृत्य प्रवर्तन्ते ब्रह्मसाक्षात्काराय ननु योगे विचारणैव वित्तदोषनिराकरणेन तस्यान्यथासिद्धत्वादिति कृतमधिकेन // 29 // एवं शुद्धं त्वंपदार्थ निरूप्य शुद्ध तत्पदार्थ निरूपयति योयोगी मामीश्वरं तत्पदार्थमशेषप्रपञ्चकारणमायोपाधिकमुपाधिविवेकेन सर्वत्र प्रपञ्चे सदूपेण स्फुरणरूपेण चानुस्यूतं सर्वोपाधिविनिर्मुक्तं परमार्थसत्यमानन्दघनमनन्तं पश्यति योगजेन प्रत्यक्षेणापरोक्षीकरोति तथा सर्व च प्रपञ्चजातं मायया मय्यारोपितं मद्भिन्नतया मृषात्वेनैव पश्यति तस्यैवं विवेकदार्शनोहं तत्पदार्थोभगवान प्रणश्यामि ईश्वरः कश्चिन्मद्भिन्नो-15 // 83 // For Private and Personal Use Only