________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir || तीत्यर्थः अभ्यासवैराग्याभ्यामन्तरायनिवृत्तौ कर्तव्यतायामभ्यासदाढार्थमाह 'तलतिषेधार्थमेकतत्त्वाभ्यासः तेषामन्तरायाणां पतिषेधार्थमेकस्मिन्कस्मिश्विदभिमते तत्त्वेऽभ्यासचेतसः पुनःपुनर्निवेशन कार्य तथा 'मैत्री करणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातचित्तप्रसादनं' मैत्री सौहार्द करणा कृपा मुदिता हर्षः उपेक्षा औदासीन्यं सुखादिशब्दैस्तद्वन्तः प्रतिपाद्यन्ते सर्वप्राणिषु सुखसंभोगापन्नेषु साध्वेतन्मम मित्राणां सुखित्वमिति मैत्री भावयेत न त्वीया॑ दुखितेषु कथनु नामैषां दुःखानिवृत्तिः स्यादिति कृपा|मेव भावयेत् नोपेक्षा नवा हर्ष पुण्यवत्सु पुण्यानुमोदनेन हर्ष कुर्यान्तु इषं न चौपेक्षा अपुण्यवत्सु चौदासिन्यमेव भावयेनानुमोदन नवा द्वेष एवमस्य भावयतः शुक्लोधर्मउपजायते ततश्च विगतरागद्वेषादिमलं चित्तं प्रसन्नं सदेकाग्रतायोग्यं भवति मैत्र्यादिचतुष्टयं चोपलक्षणं अभयं सत्त्वसंशुद्धिरित्यादीनाममानित्वमदम्भित्वमित्यादीनां च धर्माणां सर्वेषामेतेषां शुभवासनारूपत्वेन मलिनवासनानिवर्तकस्वात् रागद्वेषौ महाशत्रू सर्वपुरुषार्थप्रतिबन्धको महता प्रयत्नेन परिहर्तव्यावित्येतत्सूत्रार्थः एवमन्यपि प्राणायामादयउपायाचित्तप्रसादनाय |दर्शिताः तदेताश्चत्तप्रसादनं भगवदनुग्रहेण यस्य जातं तं प्रत्येवैतद्वचनं सुखेनेति अन्यथा मन:प्रशमानुपपत्तेः // 28 // तदेवं निरोधसमा|धिना त्वंपदलल्ये तत्पदलक्ष्ये च शुद्धे साक्षात्कृते तदैक्यगोचरा तत्त्वममीति वेदान्तवाक्यजन्या निर्विकल्पकसाक्षात्काररूपा वृत्तिर्ब्रह्मविद्याभिधाना जायते ततश्च कृत्स्ना विद्या तत्कार्यनिवृत्त्या ब्रह्मसुखमत्यन्तमश्रुतइत्युपपादयति त्रिभिः श्लोकैः तत्र प्रथमं त्वंपदलक्ष्योपस्थितिमाह सर्वेषु भूतेषु स्थावरजङ्गमेषु शरीरेषु भोक्ततया स्थितमेकमेव नित्यं विभुमात्मानं प्रत्यक्चेतनं साक्षिणं परमार्थसत्यमानन्दघन साक्ष्येभ्योऽनृतजडपारच्छिन्नदुःखरूपेभ्योविवेकनेक्षते साक्षात्करोति तस्मिंश्चात्मनि साक्षिणि सर्वाणि भूतानि साक्ष्याण्याध्यासिकेन संबन्धेन भोग्यतया कल्पितानि साक्षिसाक्ष्ययोः संबन्धान्तरानुपपत्तेमिथ्याभूतानि परिच्छिन्नानि जडानि दुःखात्मकानि साक्षिणोविवेकनेक्षते कः योगयुक्तात्मा योगेन निर्विचारवैशारद्यरूपेण युक्तः प्रसाद प्रामआत्मान्तःकरणं यस्य सतथा तथाच प्रागेवोक्तं निर्विचारवशारोऽध्यात्मप्रसादः ऋतंभरा तत्र प्रज्ञा श्रुतानुमानप्रज्ञाभ्यामन्यविषयाविशेषार्थत्वादिति तथा च शब्दानुमानागोचरयथार्थविशेषवस्तुगोचरयोगजप्रत्यक्षेण ऋतंभरसंज्ञेन युगपत्सूक्ष्म व्यवहितं विप्रकृष्टं च सर्व तुल्यमेव पश्यतीति सर्वत्र समं दर्शनं तस्येति सर्वत्र समदर्शनः सन्नात्मानमनात्मानं च योगयुक्तात्मा यथावस्थितमीक्षतइति युक्तं अथवा योयोगयुक्तात्मा योवा सर्वत्र समदर्शनः सआत्मानमीक्षतइति योगिसमदर्शिनावात्मेक्षणा|धिकारिणावुक्तौ यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुः तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि नावइयं योगएवापे Ne55252515250505506052502th For Private and Personal Use Only