________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org गी. म. 1182 // निमित्तोविकारोज्वगदिः स्त्यानमकर्मण्यता गुरुणा शिक्ष्यमाणस्याप्यासनादिकर्मानहतेति यावन् योगः साधनीयानवेत्युभयकोटिस्पावि-12 ज्ञानं संशयस्तद्रूपप्रतिष्ठत्वेन विपर्ययान्तर्गतोपि सन्नुभयकोटिस्पर्शिवैककोटिस्पर्शित्वरूपावान्तरविशेषविवक्षवात्र विपर्ययोद्भदेनोक्तः प्रमादः समाधिसाधनानामनुष्टानसामयेप्यननुष्ठानशीलता विषयान्तरव्याप्ततया योगसाधनेष्वौदासीन्यमिति यावत् आलस्यं सत्यामप्यौदासी-1 न्यप्रच्युतौ कफादिना तमसा च कायचित्तयोर्गुरुत्वं व्याधिवेनाप्रसिद्धमपि योगविषये प्रवृत्तिविरोधि अविरातिश्चित्तस्य विषयविशेषऐकान्तिकोभिलाषः भ्रान्तिदर्शनं योगासाधनेपि तत्साधनस्व बुद्धिस्तथा तत्साधनेष्यसाधनवबुद्धिः अलब्धभुमिकत्वं समाधिभूमेरेकाग्रताया अलाभः क्षिनमूदविक्षिप्तरूपत्वमिति यावत् अनवास्थितत्वं लम्धायामपि समाधिभूमौ प्रयत्नशैशिल्याचित्तस्य तत्राप्रतिष्टितत्वं तएते चित्तविक्षेपानवयोगमलायोगप्रतिपक्षायोगान्तरायाइति चाभिधीयन्ते दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासाविक्षेपसहभुवः दुःखं चित्तस्य राजसः परिणामोबाधनालक्षणः तच्चाध्यात्मिक शारीरं मानसं च व्याधिवशात्कामादिवशाच्च भवति आधिभौतिक युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः // सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमभुते // 28 // ARRRRRRRRRRRRRRR व्याघ्रादिननितं आधिदैविक ग्रहपीडादिजनितं द्वेषाख्याविपर्ययहेतुत्वात्समाधिविरोधि दौर्मनस्यमिच्छाविघातादिवलबदुःखानुभवजनिधित्तस्य तामसः परिणामविशेषः क्षोभापरपर्यायस्तब्धीभावः सतु कषायत्वाल्लयवत्समाधिविरोधी अङ्गमेजयत्वमङ्गकम्पनमासनस्थैर्यविरोधि प्राणेन बाद्यस्य वायोरन्तःप्रवेशनं वासः समाध्यगरेचकविरोधी प्राणेन कोष्टयस्य वायोर्वहिनिःसारण प्रश्वासः समाध्यङ्गपूरकविरोधी समाहितचित्तस्यैते न भवन्ति विक्षिप्रचित्तस्यैव भवन्तीति विक्षेपसहभुवोन्तरायाए व एतेऽभ्यासवरा| ग्याभ्यां निरोद्धव्याः ईश्वरप्रणिधानेन च तीव्रसंवेगानामासन्ने समाधिलामे प्रस्तुते ईश्वरपाणिधानादेनि पक्षान्तरमुक्त्वा प्रणिधेयमीश्वर केशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेषईश्वरः तत्र निरतिशय सर्वज्ञवीज सपूर्वेषामपि गुरुः कालेनानवच्छेशादिति त्रिभिः सूत्रैः प्रतिपाद्य तत्पणिधानं द्वाभ्यामसूत्रयन् तस्य वाचकः प्रणवः तज्जपस्तदर्थभावनमिति ततः प्रत्यक्वेनाधिगमोप्यन्तरायाभावश्च ततःप्रणवजपरूपातदर्थध्यानरूपाच्चेश्वरप्रणिधानात् प्रत्यक्चेतनस्य पुरुषस्य प्रकृतिविवेकेनाधिगमः साक्षात्कारोभवति उक्तानामन्तरायाणामभावोपि भव For Private and Personal Use Only