________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobetirth.org वानप्रदीपकल्म अनाभासं न केनचिहिषयाकारणाभासइत्येतन् कषायसुखास्वादयोरुभयान्तर्भावः उक्तएव यदैवं दोषचतुष्टय रहितं चित्तं भवति तदा तश्चितं ब्रह्मनिष्पन्न समं ब्रह्मप्राप्नं भवतीत्यर्थः एतादृशश्च योगःश्रुत्या प्रतिपादितः 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्च न विचेष्टति तामाहुः परमां गतिं तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणां अप्रमत्तस्तदा भवति योगोहि प्रभवाप्ययाविति एतन्मूलकमेव च योगश्चित्तवृत्तिनिरोधइति सूत्रं तस्मायुक्तं ततस्ततोनियम्यैतदात्मन्येव वशं नयेदिति // 26 / / एवं योगाभ्यासबलादात्मन्येव योगिनः प्रशाम्यति मनः ततश्च प्रकर्षण शान्तं निर्वत्तिकतया निरुद्धं संस्कारमात्रशेष मनोयस्य तं प्रशान्तमनसं वृत्तिशून्यतया निर्मनस्कं निर्मनस्कत्वे हेतुगर्भविशेषणद्वयं शान्तरजसमकल्मषमिति शान्तं विक्षेपक रजोयस्य तं विक्षेपशून्यं तथा न विद्यते कल्मषं लयहेतुस्तमोयस्य नमकल्मषं लयशून्यं शान्तरजसामत्यनेनैव तमोगुणोपलक्षणे अकल्मषं संसारहेतुधर्माधर्मादिवर्जितमिति वाब्रह्मभूतं ब्रह्मैव सर्वमिति निश्चयेन समं ब्रह्ममाप्नं जीवन्मुक्तं एनं योगिनं एवमुक्तेन प्रकारेणेति श्रीधरः उत्तम निरतिशयं सुखमुपैत्युपगच्छति मनस्तवृत्त्योरभावे सघुमौ स्वरूप प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् // उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् // 27 // सुखाविर्भावप्रसिद्धिं द्योतयति हि शब्दः तथा च प्राग्व्याख्यातं सुखमात्यन्तिकं यत्तदित्यत्र ||27|| उक्तं सुखं योगिनः स्फुटीकरोति एवं मनसैवेन्द्रिययाममित्यायुक्तक्रमेणात्मानं मनः सदा युजन्समादधत् योगी योगेन नित्यसंबन्धी विगतकल्मषः विगतमलः संसारहेतुधर्माधर्मरहितः सुखेनानायासेन ईश्वरप्रणिधानात् सर्वान्तरावनिवृत्त्या ब्रह्मसंस्पर्श सम्यक्त्वेन विषयास्पर्शन सह ब्रह्मगः स्पर्शस्तादात्म्यं यस्मिन् तद्विषयासंस्पर्श ब्रह्मस्वरूपमित्येतत् अत्यन्तं सर्वानन्तान्परिच्छेदानतिक्रान्तं निरातिशयं सुखमानन्दमभुते व्यानोति सर्वतोनिवृत्तिकेन वित्तेन लयविक्षेपविलक्षणमनुभवति विक्षेपे वृत्तिसत्त्वात् लये च मनसोपि स्वरूपेणाऽसत्त्वात् सर्ववृत्तिशून्येन सूक्ष्मेण मनसा सुखानुभवः समाधावत्यर्थः अत्र चानायासेनेत्यन्तरायनिवनिरुक्ता ते चान्तरायादर्शितायोगसूत्रेण 'व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालन्धभामकत्वान वस्थितत्वानि चित्तविक्षेपास्तन्तरायाः चित्तं विक्षिपन्ति योगाइपनयन्तीति वित्तविक्षेपायोगप्रतिपक्षाः संशयभ्रान्तिदर्शने तावत्तिरूपतया वृत्तिनिरोधसाक्षात्पतिपक्षी व्याध्यादयस्तु सप्रवृत्तिसहचरिततया तत्प्रतिपक्षाइत्यर्थः व्याधिर्षानुवैषम्य For Private and Personal Use Only