________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.६. 81 // सर्व द्रुतमविद्याविजृम्भितमल्पं दुःखमेवेत्यनुसृत्य -- योवै भूमा तत्सुखं, नाल्पे सुखमस्ति अथ यदल्पं तन्मत्यै नत् दुःखमिति' श्रुत्यर्थं गुरूपदेशादनुपश्चात्पर्यालोच्य कामान् चिन्त्यमानावस्थान् विषयान्भोगान् भुज्यमानावस्थांश्च विषयानिवर्तयेत् मनसः सकाशादिति शेषः कामच भोगच कामभोग तस्मान्मनोनिवर्तयेदिति वा एवं दैतस्मरणकाले वैराग्यभावनोपायइत्यर्थः दैतविस्मरणं तु परमोपायइत्याह अजं ब्रह्म सर्व न ततीतिरिक्तं किञ्चिदस्तीति शास्त्राचार्योपदेशादनन्तरमनुस्मृत्य तविपरीतं द्वैतजातं न पश्यत्येव अधिष्ठाने ज्ञाते कल्पितस्याभावात् पूर्वोपायापेक्षया वैलक्षण्यसूचनार्थस्तु शब्दः एवं वैराग्यभावनातत्त्वदर्शनाभ्यां विषयेभ्योनिवर्षमानं चित्तं यदि दैनंदिनलयाभ्यासवशाल्लयाभिमुखं भवेत् तदा निद्राशेषाजीर्णबव्हशनप्रमाणां लयकारणानां निरीधेन चित्तं सम्यक् प्रबोधयेदुस्थानप्रयत्नेन यदि पुनरेवं प्रबोध्यमानं दैनंदिनप्रबोधाभ्यासवशात् कामभोगयोविक्षिनं स्यात् तदा वैराग्यभावनया तत्त्वसाक्षात्कारेण च पुनः शमयेत् एवं पुनः पुनरभ्यस्यतोलयात्संबोधित विषयेभ्यश्च व्यावर्तितं नापि समप्राप्तमम्तरालावस्थं चित्तं स्तब्धीभूतं सकषायं रागद्वेषादिप्रबलवासनावशेन स्तब्धीभावाख्येन कषायेण दोषेण युक्तं विजानीयात् समाहिताञ्चित्ताद्विवेकेन जानीयात् ततश्च नेदं समाहितमित्यवगम्य लयविक्षेपाभ्यामिव कषायादपि चित्तं निरन्ध्यात् ततश्च लयविक्षेपकषायेषु परित्वृत्तेषु परिशेषाचितेन समं ब्रह्म प्राप्यते तच समप्राप्नं चित्तं कषायलयभ्रान्त्या न चालयेत् विषयाभिमुखं न कुर्यात् किंतु धृतिगृहीतया बुद्ध्या लयकषायप्राप्तर्विविच्य तस्यामेव समप्राप्तावतियत्नेन स्थापयेत् तत्र समाधौ परमसुखव्यञ्जकपि सुखं नास्वादयेत् एतावन्तं कालमहं मुखीति सुखास्वादरूपां वृत्तिं न कुर्यात समाधिभङ्गप्रसङ्गादिति प्रागेव कृतव्याख्यानं प्रज्ञया यदुपलभ्यते सुखं तदप्यविद्यापरिकल्पितं मषवेत्येवंभावनया निःसनो। निस्पृहः सर्वसुखे भवेत् अथवा प्रशया सविकल्पसुखाकारवृत्तिरूपया सह सई परित्यजेत् नतु स्वरूपसुखमपि निवृत्तिकेन चित्तेन नानुभवेत् स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात् एवं सर्वतोनिवर्त्य निश्चल प्रयत्न वशन कृतं नित्तं स्वभावचाञ्चल्या | विषयाभिमुखतया निश्वरदाहिर्निर्गच्छत् एकीकुर्यात् प्रयत्नतः निरोधप्रयत्नेन समे ब्रह्मण्येकतां नयेत् समप्रामं चित्तं कीदृशमुच्यते | यदा न लीयते नापि स्तब्धीभवति तामसत्वसाम्येन लयशब्देनैव स्तब्धीमावस्योप लक्षणात् न च विक्षिप्यते पुनः नशद्वाद्याकारवृत्तिमनुभवनि नापि सुखनास्वादयति राजसत्वसाम्येन सुखास्वादस्यापि विक्षेपशद्धनोपलक्षणात् पूर्व भेदनिर्देशस्तु पृथक्प्रयत्न करणाय एवं लयकषायाभ्यां विक्षेपसुखास्वादाभ्यां च रहितं अर्निङ्गनमिङ्गनं चलनं सवातप्रदीपवत लयाभिमुखरूपं तद्रहितं नि // 8 // For Private and Personal Use Only