________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |'आत्मसंस्थं मनः कृत्वा म किंचिदपि चिन्तयेदिति आत्मानि निरुपाधिके प्रतीचि संस्था समापिर्यस्य तदात्मसंस्थं सर्वप्रकारवृत्तिशून्य स्वभावसिद्धात्माकारमात्रविशिष्टं मनः कृत्वा धृतिगृहीतया विवेकबुद्ध्या संपद्यासंप्रज्ञातसमाधिस्थःचन् किंचिदपि अनात्मानमात्मानं वा न चिन्तयेत् न वृत्त्या विषयीकुर्यात् अनात्माकारवृत्ती हि व्युत्थानमेव स्यात् आत्माकारपत्तौ च संप्रज्ञातः समाधिरित्यसंप्रज्ञातसमाधिस्थैर्याय कामपि चित्तवृत्ति नोत्पादयेदित्यर्थः ॥२दा एवं निरोधसमाधं कुर्वन् योगी शब्दादीनां विचविक्षेपहेतूनी मध्ये यतोयतोयस्माद्य|स्मानिमित्ताच्छन्दादेविषयावागदेषादेव चञ्चल विक्षेपाभिमुख सत मनोनिश्वरति विक्षि सत् विषयाभिमुखी प्रमाणविपर्ययविकल्पस्मृतीनामन्यतमामपि समाधिविरोधिनी वृत्तिमुत्पादयति सथा लयहेतूनां निद्राशेषबहुशनश्रमादीनां मध्ये बतायतोनिमित्तादस्थिरं तयाभिमुख सन्मनोनिश्चरति लीनं सत्समाधिविरोधिनी निद्राख्यां वृत्तिमुत्पादयतिततस्ततोषिक्षेपनिमित्ताल्लयनिमित्ताच नियम्यैतन्मनोनित्तिकं कृत्वात्मन्येव स्वप्रकाशपरमानन्दघने वशं नयेत् निरन्ध्यात् यया न विक्षिप्येत न वा लीयेतेति एवकारोऽनात्मगोचरत्वं समारियति एतच यतोयतोनिश्चरति मनश्चञ्चलमस्थिरम् // ततस्ततोनियम्यैतदारमन्येव वशं नयेत्॥२६॥ 15152515251525516565152515 विवृतं गौडाचार्यपादैः ‘उपायेन निगृहीयाविक्षिप्तं कामभोगयोः सुप्रन्न लये चैव यथा कामोलयस्तथा दुःख सर्वमनुस्मृत्य कामभोगाविवर्तयेत् अजंसर्वमनुस्मृत्य जातं नैव तुपश्यति लये संबोधयेचित्तं विक्षितं शमयेत्पुनः सकषाय विजानीयात्समप्राप्तं न चालयेत् नास्वादयेत्सुखं तत्र निःसङ्गः प्रज्ञया भवेत् निश्चलं निश्वरचित्तमेकीकुर्यात्प्रयत्ननः यदा न लीयते चित्तं न च विक्षिप्यते पुनः अनिगनमनाभासं निष्पन्न ब्रह्मतत्तदेति। पञ्चभिः श्लोकैः उपायेन वक्ष्यमाणेन वैराग्याभ्यासेन कामभोगयोविक्षिप्तं प्रमाणविपर्य| यविकल्पस्मृतीनामन्यतमयापि वच्या परिणतं मनोनिगण्हीयात् निरुन्ध्यादात्मन्येवेत्यर्थः कामभोगयोरिति चिन्त्यमानावस्थाभुज्यमानावस्थाभेदेन द्विवचनं तथा लीयतेऽस्मिन्निति लयः सुषुमं तस्मिन् सुप्रसन्नमायासवर्जितमपि मनोनिगृहीयादेव सुप्रसन्ने चे| कुनोनिगृह्यने तबाह यथा कामोविषयगोचरप्रमाणादिवत्त्युत्पादनेन समाधिविरोधी तथा लयोपि निद्राख्यवत्त्युत्पादनेन समाधिविरोधी सर्ववृत्तिनिरोधोहि समाधिः अतः कामादिकृताविक्षेपादिव प्रमादिकृतलयादपि मनोनिरोद्धव्यमित्यर्थः उपायेन निगृहीयात्कनेत्युच्यते For Private and Personal Use Only