________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. +4 // 84 // नाशवासनाक्षयाणां तु युगपदभ्यासासृष्टदुःखनिवृत्तिपूर्वक जीवन्मुक्तिसुखमनभवन् पारब्धकर्मवशात् समाधियुत्थानकाले आत्मैवीपम्यमुपमा तेनात्मदृष्टान्तेन सर्वत्र प्राणिजाते सुख वा यदि वा दुःखं समं तुल्यं यः पश्यति स्वस्यानिष्टं यथा न संपादयति एवं परस्याप्यनिष्टं योन संपादयति प्रवेषशून्यत्वात् एवं स्वस्येटं यथा संपादयति तथा परस्यापीष्टं यः संपादयति रागशून्यत्वात् सनिर्वासनत योपशान्तमनाः योगी ब्रह्मवित् परमः श्रेष्ठोमतः पूर्वस्मात् हे अर्जुन अतस्तत्त्वज्ञानमनोनाशवासनाक्षयाणां यथाक्रममभ्यासाय महान् प्रयत्नआस्थेवइत्यर्थः तत्र इदं सर्व द्वैतजातमावतीये चिदानन्दात्मनि मायया कल्पितत्वान्मृषेत्र आत्मैकः परमार्थसत्यः सच्चिदानन्दाइयोहमस्मीति ज्ञानं तत्त्वज्ञान प्रदीपज्वालासन्तानववृत्तिसन्तानरूपेण परिणममानमन्तःकर गद्रव्यं मननात्मकत्वान्मनइत्युच्यते तस्य नाशोनाम वृत्तिरूपपरिणाम परित्यज्य सर्ववृत्तिविरोधिना निरोधाकारेण परिणामः पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतुश्चित्तगतः संस्कारविशेषावासना पूर्वपूर्वाभ्यासेन चित्ते वास्यमानत्वात् तस्याः श्योनाम 於終於終於RX88888888 आत्मौपम्येन सर्वत्र समं पश्यति योर्जुन // सुखं वा यदि बा दुःखं सयोगी परमोमतः॥३२॥ 总经尽民怨只怨只怨只怨的 विवेकजन्यायां चित्तप्रशमवासनाथां दृढायां सत्यपि बावे निमिसे क्रोधाद्यनुत्पत्तिः तत्र तत्त्वज्ञाने सति मिथ्याभते जगति नरविषाणादाविव धीवृत्त्यनुदयादात्मनश्च दृष्टत्त्वेन पुनर्वस्वनुपयोगानिरिन्धनामिवन्मनोनश्यति नष्टे च मनसि संस्कारोबोधकस्य बाह्यस्य निमित्तस्यापताती वासना क्षीयते क्षीणायां वासनायां हेत्वभावेन क्रोधादिवत्यनुदयान्मनोनश्यति नटे च मनसि शमदमादिसंपत्त्या तत्त्वज्ञान| मुदति एवमुत्पन्ने तत्त्वज्ञाने रागद्देषादिरूपा वासना क्षीयते क्षीणायां च वासनायां प्रतिबन्धाभावात्तत्त्वज्ञानोदयइति परस्परकारणत्वं | दर्शनीय अतएव भगवान् वसिष्ठआह 'तत्त्वज्ञानं मनोनाशोवासनाक्षयएव च मिथः करणतां गत्वा दुःसाध्यानि स्थितानि हि तस्माद्राघव यल्लेन पौरुषेण विवेकिना भोगेच्छां दुरतस्त्यम्त्वा त्रयमेतत्समाश्रयेदिति' पौरुषोयत्नः केनाप्युपायेनावश्य संपादयिष्यामीत्येवंविधोत्साहरूपोनिर्बन्धः विवेकोनाम विविच्य निश्चयः तत्त्वज्ञानस्य श्रवणादिकं साधनं मनोनाशस्य योगः वासनाक्षयस्य प्रतिकूलवासनोत्पादनमिति एतादृशविवेकयुक्तेन पौरषेण प्रयत्नेन भोगेच्छायाः स्वल्पायाभपि हविषा कृष्णवर्मेवेति न्यायेन वासनावृद्धिहेतुत्वा || // 84 // For Private and Personal Use Only