SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म // 76 // त्वात् श्रुतमागमविज्ञानं तस्सामान्यविषयमेव न हि विशेषेण सहकस्यचिच्छब्दस्य सङ्गतिग्रहीतुं शक्यले तथानुमान सामान्यविषयमेव न हि विशेषेण सह कस्यविद्यानिर्यहीतुं शक्यते तस्माच्छृतानुमानविषयोन विशेषः कश्चिदस्ति न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनोलोकप्रत्यक्षेण ग्रहणमस्ति किन्तु समाधिप्रज्ञानिधिएव च सविशेषोभवति भूतसूक्ष्मगतोवा पुरुषगतोवा तस्मान्नर्विचारवैशारद्यसमुद्भवायां श्रुतानुमानविलक्षणायां सूक्ष्मव्यवहितविप्रकृष्टसर्वविशेषविषयायामृतंभरायामेव प्रज्ञायां योगिना महान् प्रयलआस्थेयइत्यर्थः ननु क्षिप्तमूढविक्षिप्ताख्यव्युत्थानसंस्काराणामेकाग्रतायामाप सवितर्कनिर्वितर्कसविचारजानां संस्काराणां सद्भावात्तैश्वाल्यमानस्य चित्तस्य कथं निर्विचारवैशारापूर्वकाध्यात्मप्रसादलभ्या ऋतंभरा प्रज्ञा प्रतिष्ठिता स्यादतआह तज्जः संस्कारोन्यसंस्कारप्रतिबन्धी तया ऋतंभरया प्रज्ञया जनितीयः संस्कारः सतत्त्वाविषयया प्रज्ञया जनितत्वेन बलबच्चादन्यान व्युत्त्यानजान समाधिजश्व संस्कारान् तचविषयप्रज्ञाजनितत्वेन दुर्बलान् प्रतिबभाति स्वकार्याक्षमान् करोति नाशयतीति वा तेषां संस्काराणामभिभवात्तत्प्रभवाः प्रत्ययानभवन्ति ततः समाधिरुपतिष्ठते ततः समाधिजा प्रज्ञा ततः प्रज्ञाकृताः संस्काराइति नवोनवः संस्काराशयोवर्धते ततध प्रज्ञा ततश्च संस्काराइति ननु भवतु व्युत्थानसंस्काराणामतत्त्वविषयप्रज्ञाजानतानां तत्त्वमात्रविषयसंप्रज्ञातसमाधिप्रज्ञाप्रभवैः संस्कारैः प्रतिबन्धस्तेषां तु संस्काराणां प्रतिबन्धकाभावादेकाप्रभूमावेव सबीजः समाधिः स्यान्न तु निर्बीजोनिरोधभूमाविति तत्राह तस्यापि निरोधे सर्वनिरोधानिर्बीजः समाधिः तस्य संप्रज्ञातस्य समाधेरेकायभूमिजस्य अपिशब्दात् क्षिप्त मडविक्षिप्तानामाप निरोधे योगिप्रयलविशेषेण विलयेसति सर्वनिरोधात्समाधेः समाधिजस्य संस्कारस्यापि निरोधानिर्वाजनिरालम्बनोऽसंप्रज्ञातसमाधिर्भवति सच सोपायः प्राक् सूत्रितोविरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोन्यइति विरम्यतेनेनेति विरामावितर्कविचारानन्दास्मितादिरूपचिन्तात्यागः तस्य | प्रत्ययः कारणं परं वैराग्यमिति यावत् विरामथासौप्रत्ययश्चित्तवृत्तिविशेषहति वा तस्याभ्यास: पौनःपुन्येन चेतास निवेशन तदेव पूर्व कारणं यस्य सतथा संस्कारमात्रशेषः सर्वथा निर्वृत्तिकोन्यः पूर्वोक्तात्सवीजादिलक्षणोनि/जोऽसं प्रज्ञातसमाधिरित्यर्थः संप्रज्ञातस्य हि द समाधीवुपायावुक्तावभ्यासोवैराग्यं च तत्र सालम्बनत्वादभ्यासस्य न निरालम्बनसमाधिहेतुत्वं घटतइति निरालम्बनं परं वैराग्यमेव हेतुत्वेनोच्यते अभ्यासस्तु संप्रज्ञातसमाधिद्वारा प्रणाड्योपयुज्यते तदुक्तं 'वयमन्तरङ्ग पूर्वेभ्यः' धारणाध्यानसमाधिरूपं साधनत्रयं यम14नियमासनप्राणायामप्रत्याहाररूपसाधनपञ्चकापेक्षया सबीजस्य समाधेरन्तरशंसाधनं साधनको च समाधिशब्देनाभ्यासएवोच्यते मु-11 长银的很尽兴88888885 8888888888888886 // 76 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy