________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 民 经纪轻轻的 समापत्तिईिविधा सविचारा निर्विचारा च सविकल्पकनिर्विकल्पकभेदेन एतयैव सवितर्कया निर्वितर्कयाच स्थूलविषयया समापत्त्या व्याख्याता शब्दार्थज्ञानविकल्पसहितत्वेन देशकालधर्माद्यवच्छिन्नः सूक्ष्मोर्थः प्रतिभाति यस्यां सा सविचारा शब्दार्थज्ञानविकल्परहितत्वेन देशकालधर्माद्यनवछिन्नत्वेन च धर्मिमात्रतया सूक्ष्मार्थः प्रतिभाति यस्यां सा निर्विचारा सविचारनिर्विचारयोः सूक्ष्मविषयत्वविशेषणात्सवितकनिर्वितर्कयोः स्थूलविषयत्वमर्थाढ्याख्यातं सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं सविचारायानिर्विचारायाच समापत्तेर्यसूक्ष्मविषयत्वमुक्तं तदलिङ्गपर्यन्तं द्रष्टव्यं तेन सानन्दसास्मितयोर्ग्रहीतग्रहणसमापत्त्योरपि ग्राह्यसमापत्तावेवान्तर्भावइत्यर्थः तथा हि पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्माविषयः आप्यस्यापि रसतन्मात्रं तैजसस्य रूपतन्मात्रं वायवीयस्य स्पर्शतन्मात्र नभसः शब्दतन्मानं तेषामहङ्कारः तस्य लिङ्गमात्र महत्तत्त्वं तस्याप्यलिङ्ग प्रधानं सूक्ष्मोविषयः सप्तानामपि प्रकृतीनां प्रधानएव सूक्ष्मता नाविश्रान्तेस्तत्पर्यन्तमेव सूक्ष्मविषयत्वमक्तं यद्यपि प्रधानादाप परुषः सूक्ष्मोस्ति तथाप्यन्वयिकारणत्वाभावात्तस्य सर्वान्वयिकारणे| 22 दाप्रधानएव निरतिशयं सौक्ष्म्यं व्याख्यातं पुरुषस्तु निमित्तकारणं सदपि नान्वयिकारणत्वेन सूक्ष्मतामर्हति अन्वयिकारणत्वाविवक्षायां तु पुरुषोपि सूक्ष्मो भवत्येवेति द्रष्टव्यं ताएव सबीजः समाधिः ताश्चतः समापत्तयोग्रायेण बीजेन सहवर्तन्तइति सबीजः समाधि |र्वितर्कविचारानन्दास्मितानुगमात्सप्रजातइति प्रागुक्तः स्थूलेथे सवितर्कोनिर्वितर्कः सूत्मेर्थे सविचारोनिर्विचारहति तत्रान्तिमस्य |फलमुच्यते निर्विचारवैशारयेध्यात्मप्रसादः स्थूलविषयत्वे तुल्यपि सवितर्क शब्दार्थज्ञानविकल्पसङ्कीर्णमपेक्ष्य तद्रहितस्य हानिर्विकल्परूपस्य निर्वितर्कस्य प्राधान्यं ततः सूक्ष्मावषयस्य सविकल्पकप्रतिभासरूपस्य सविचारस्य ततोपि सूक्ष्म-1 विषयस्य निर्विकल्पकप्रतिभासरूपस्य निर्विचारस्य प्राधान्यं तत्र पूर्वेषां त्रयाणां निर्विचारार्थत्वानिर्विचारफलेनैव फलवत्त्वं निर्विचारस्य तु प्रकृष्टाभ्यासबलादेशारये रजस्तमोनभिभूतसत्त्वोद्रेके सत्यध्यात्मप्रसादः केशवासनारहितस्य चित्तस्य भूतार्थविषयः क्रमाननुरोधी स्फुटः प्रज्ञालोकः प्रादुर्भवति तथा च भाष्यं 'प्रज्ञाप्रसादमारुह्य अशोच्यः | शोचतोजनान् भूमिष्ठानिव शैलस्थः सर्वान्याज्ञानुपश्यतीति' ऋतंभरा तत्र प्रज्ञा तत्र तस्मिन् प्रज्ञाप्रसादे सति समाहितचित्तस्य योगिनोया प्रज्ञा जायते सा ऋतंभरा ऋतं सत्यमेव बिभर्ति न तत्र विपर्यासगन्धोप्यस्तीति यौगिक्येवेयं समाख्या सा चोत्तमोयोगः तथा च भाष्य | आगमेनानुमानेन ध्यानाभ्यासरसेन च विधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तममिति' सातु श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थ 是很好的保税於 For Private and Personal Use Only