SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. | लेखशून्यत्वेन यदा भावना प्रवर्तते तदा निर्वितर्कः एतावुभावप्यत्र वितर्कशद्वेनोक्ती तत्रान्तः करणलक्षणे सूक्ष्म विषयमालम्ब्य तस्य |देशकालधर्मावच्छेदेन यदा भावना प्रवर्तते तदा सविचारः अस्मिन्नेव अवलम्बने देशकालधर्मावच्छेदं विना धर्मिमात्रावभासित्वेन यदा भावना प्रवर्तते तदा निर्विचारः एतावुभावप्यत्र विचारशद्वेनोक्ती तथा च भाप्यं वितर्कश्चित्तस्य स्थूलआलम्बने आभोगः सूक्ष्म विचारइति इयं ग्राह्यसमापत्तिरिति व्यपदिश्यते यदा रजस्तमोलेशानुविद्धमन्तःकरणसत्वं भाव्यते तदा गुणभावाच्चिच्छक्तेः सुखप्रकाशमयस्य सत्त्वस्य भाव्यमानस्योद्रेकालानन्दः समाधिर्भवति अस्मिन्नेव समाधौ ये बद्धधृतयस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद्विदेहशड्रेनोच्यन्ते इयं ग्रहणसमापत्तिः ततःपरं रजस्तमोलेशानभिभूतं शुद्ध सत्वमालम्बनीकृत्य या भावना प्रवर्तते तस्यां याद्यस्य सत्त्वस्य न्यग्भावाचितिशतरुद्रेकात्सत्तामात्रावशेषत्वेन समाधिः सास्मितइत्युच्यते न चाहङ्कारास्मितयोरभेदः शङ्कनीयः यतोयत्रान्तःकरणमहमित्युल्लेखेन विषयान् वेदयते सोहङ्कारः यत्र त्वन्तर्मुखतया प्रतिलोमपरिणामेन प्रकृतिलीने चेतसि सत्तामात्रमवभाति सास्मिता अस्मिन्नेव समाधौ ये कृतपरितोषास्ते परं पुरुषमपश्यन्तश्चेतसः प्रकृती लीनत्वात्प्रकृतिलयाइत्युच्यन्ते सेयं ग्रहीतसमापत्तिरस्मितामात्ररूपग्रहीतनिष्टत्वात् येतु परं पुरुषं विक्च्यि भावनायां प्रवर्तन्ते तेषामपि केवलपुरुषविषया विवेकख्यातिम्रहीतसमापत्ति रपि न सास्मितः समाधिविवेकेनास्मितायास्त्यागात् तत्र ग्रहीतृभानपूर्वकमेव ग्रहणभानं तत्पूर्वकं च सूक्ष्मग्राह्यभानं तत्पूर्वक च स्थल अग्राह्यभानमिति स्थूलविषयोद्विविधोपि वितर्कश्चतुष्टयानुगतः द्वितीयोवितर्कविकलखितयानुगतः तृतीयोवितर्कविचाराभ्यां विकलोद्वितयानुगतश्च तुर्थोवितर्कविचारानन्दैर्विकलोऽस्मितामात्रइति चतुरवस्थोयं संप्रज्ञातइति एवं सवितर्कः सविचारः सानन्दः सास्मितश्च समाधिरन्तर्धानादिसिद्धिहेतुतया मुक्तिहेतुसमाधिविरोधित्वाद्धेयएव मुमुक्षुभिः ग्रहीनृग्रहणयोरपि चित्तवृत्तिविषयनादशायां प्राधकोटी निक्षेपात्योपादेयविभागकथनाय ग्राह्यसमापत्तिरेव विवृता सूत्रकारेण चतुर्विधा हि याद्यसमापत्तिः स्थूलयाह्यगोचरा द्विविधा सवितर्का निर्वितर्का च सूक्ष्मग्राद्यगोचरापि विविधा सविचारा निर्विचारा च तत्र शद्वार्थज्ञानविकल्पैः सङ्कीर्णा सवितर्का शद्वार्थज्ञानविकल्पसंभिन्ना स्थूलार्थावभासरूपा सवितर्का समापत्तिः स्थूलगोचरा सविकल्पकवृत्तिरित्यर्थः स्मृतिपरिशुद्धी स्वस्वरूपशून्ये चार्थमात्रनिर्भासा चिर्वितर्का तस्मिन्नेव स्थूलआलम्बने शद्वार्थस्मृतिपविलये प्रत्युदितस्पष्टयाह्याकारप्रतिभासितया न्यग्भूतज्ञानांशत्वेन स्वरूपशून्यैव निर्वितर्का समापत्तिः स्थूल|गोचरा निर्विकल्पकवृत्तिरित्यर्थः एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता सूक्ष्मस्तन्मात्रादिविषयोयस्याः सा वक्ष्मविषया| // 75 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy