________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं संप्रज्ञातसमाधिनासीनस्य किं स्यादित्युच्यते एवं रहोवस्थानादिपूर्वोक्तनियमनात्मान मनोयुजन् अभ्यासवैराग्याभ्यां समाहितं कुर्वन योगी सदायोगाभ्यासपरोऽभ्यासातिशयेन नियतं निरुद्धं मानसं मनोयेन नियतानिरुद्धा मानसामनोवृत्तिविकारायनेति वा नियतमानसः सन् शान्ति सर्ववृत्त्युपरतिरूपां प्रशान्तवाहितां निर्वाणपरमां तत्त्वसाक्षात्कारोत्पत्तिद्वारेण सकार्याविद्यानिवृत्तिरूपमुक्तिपर्यवसायिनी मत्संस्थां मस्स्वरूपपरमानन्दरूपां निष्ठामधिगच्छति नतु सांसारिकाण्यैश्वर्याणि अनात्मविषयसमाधिफलान्याधिगच्छति तेषामपवर्गोपयोगिसमाध्युपसर्गत्वात् तथा च तत्तत्समाधिफलान्युक्त्वाह भगवान् पतञ्जलिः 'ते समाधावुपसर्गाव्युत्त्याने सिद्धयइति / स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गादिति च स्थानिनोदेवाः तथाचोहालकोदेवैरामन्त्रितोपि तत्र सङ्गमादरं स्मयं गर्व चकृत्वा देवानवज्ञाय पुनरनिष्टप्रसङ्गनिवारणाय निर्विकल्पकमेव समाधिमकरोदिति वसिष्ठेनोपाख्यायते मुमुक्षभिर्हेयश्च समाधिः सूत्रितः पतञ्जलिना वितर्कविचारानन्दास्मितानुगमात्संप्रज्ञातः सम्यक संशयविपर्ययानध्यवसायरहित्वेन प्रज्ञायते प्रकर्षण विशेषरूपेण ज्ञायते भाव्यस्वरूप | युञ्जन्नेवं सदात्मानं योगी नियतमानसः // शान्ति निर्वाणपरमां मत्संस्थामधि गच्छति // 15 // येन ससंप्रज्ञातः समाधिर्भावनाविशेषः भावना हि भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनःपुनर्निवेशन भाव्यं च त्रिविध प्राधग्रहण ग्रहीतभेदात् प्राधमपि विविध स्थूलसूक्ष्मभेदात् तदुक्तं क्षीणवत्तेरभिजातस्येव मणहीतग्रहणयाह्येषु तत्स्थतदजनतासमापत्तिः क्षीणा राजसतामसवृत्तयोयस्य तस्य चित्तस्य ग्रहीतग्रहणप्राधेधात्मेन्द्रियविषयेषु तत्स्थातत्रैवैकाग्रता तदजनता तन्मयता न्यग्भूते चित्ते भाव्यमानस्यैवोत्कर्षइति यावत् तथाविधासमापत्तिस्तद्रूपः परिणामोभवति यथाभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तद्पाश्रयवशात्तत्तद्रूपापात्तरेवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः समापत्तिः समाधिरिति च पर्यायः यद्यपि ग्रहीतग्रहणपाद्येष्वित्युक्तं तथापि भूमिकाक्रमवशाग्राह्यग्रहणग्रहीतृष्विति बोद्धव्यं यतः प्रथमं ग्राघनिष्ठएव समाधिर्भवति ततोयहणनिष्ठस्ततोग्रहीतृनिष्ठहति ग्रहीत्रादिक्रमोप्यये व्याख्यास्यते तत्र यदा स्थूलं महाभूतेन्द्रियात्मकषोडशविकाररूपं विषयमादाय पूर्वापरानुसन्धानेन शब्दार्थोल्लेखेन च भावना क्रियते तदा सवितर्कः समाधिः अस्मिन्नेवालम्बने पूर्वापरानुसन्धानेन शनार्थों For Private and Personal Use Only