________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो. म यस्मानिदोषं समं ब्रह्म तस्मात्तद्रूपमात्मानं साक्षात्कुर्वन् दुःखेष्वनुद्विग्न मनाः सुखेबु विगतस्पृहइत्यत्र व्याख्यातं पूर्वाधं जीवन्मुक्तानां स्वाभाविक चरितमेव मुमुक्षुभिः प्रयत्नपूर्वकमनुष्ठेयमिति वदितुं लिङ्प्रत्ययौ अद्वितीयात्मदर्शनशीलस्य व्यतिरिक्तर्षियाप्रियप्राप्त्ययोगान ननिमिती हर्षविषादावित्यर्थः अद्वितीयात्मदर्शनमेव विवृणोति स्थिरबुद्धिः स्थिरा निश्चला संन्यासपूर्वकवेदान्तवाक्यविचारपरिपाकेण सर्वसंशयशून्यत्वेन निर्विचिकित्सा निश्चिता ब्रह्मणि बुद्धिर्यस्य सतथा लब्धश्रवणमननफलइति यावत् एतादृशस्य सर्वासंभावनाशून्यस्वेपि विपरीतभावनाप्रतिबन्धात्साक्षात्कारोनोदेतीति निदिध्यासनमाह असंमूढः निदिध्यासनस्य विजातीयप्रत्ययानन्तरितसजातीयात्ययप्रवाहस्य परिपाकेण विपरीतभावनाख्यसंमोहरहितः ततः सर्वप्रतिबन्धापगमात् ब्रह्मवित् ब्रह्मसाक्षात्कारवान् ततश्च समाधिपरिपाकेण ระวังรณรงระวังวร์ รังระยะรัง จะกรองรัง न प्रदृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् // स्थिरबुद्धिरसंमूढोब्रह्मविद्वह्मणि स्थितः / // 20 // वायस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् // सब्रम्हयोगयुक्तात्मा सुखमक्षय्यमश्नुते // 21 // निर्दोषे समे ब्रह्मण्येव स्थितोजीवन्मुक्तः स्थितप्रज्ञइत्यर्थः एतादृशस्य द्वैतदर्शनाभावात्महों वेगौ न भवतइत्युचितमेव साधकेन तु द्वैत-| दर्शने विद्यमानेपि विषयदोषदर्शनादिना प्रहर्षविषादौ त्याज्यावित्यभिप्रायः ॥२०॥ननु बाह्यविषयप्रीतेरनेकजन्मानुभूतत्वेनातिप्रबलत्वात्तदासकचितस्य कथमलौकिके ब्रह्माण दृष्टसर्वसुखरहिते स्थितिः स्यात् परमानन्दरूपत्वादिति चेत् न तदानन्दस्याननुभूतचरत्वेन चित्तस्थितिहे|तुत्वाभावात् तदुक्तं वार्तिक 'अप्यानन्दः श्रुतः साक्षान्मानेनाविषयीकृतः दृष्टानन्दाभिलाषं सन मन्दीकर्तुमप्यलमिति तत्राह इन्द्रियैः स्पृशन्त| इति स्पर्शाः शब्दादयः तेच बाधाअनात्मधर्मत्वात् तेष्वसत्तात्मा अनासक्तचित्तस्त्रष्णाशून्यतया विरक्तः सन् आत्मनि अन्तःकरणएव बा ह्यविषयनिरपेक्ष यदपशमात्मकं सुखं तदिन्दति लभते निर्मलसत्ववच्या तदक्त भारने ' यच कामसुख लोके यच दिव्यं महत्लुखं तृष्णाक्षय || | सुखस्यैते नाहतः षोडशी कलामितिः अथवा प्रत्यगात्मनि त्वंपदार्थे यत्सुखं स्वरूपभूतं सुषुप्तावनुभूयमानं बाह्यविषयासक्तिपति ||67 // For Private and Personal Use Only