SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ.४. रज्वज्ञानकल्पितानां सर्पधारादण्डादीनां रज्जुतत्त्वज्ञानेनैव ब्रह्मतत्त्वज्ञानेन बाधे बाधितानुवृत्त्या क्रियाकारकादिव्यहाराभासोदृश्यमानोपि| दग्धपटन्यायेन न फलाय कल्पतइत्यनेन लोकेन प्रतिपाद्यते ब्रह्मदृष्टिरेव च सर्वयज्ञात्मिकति स्तूयते तथाहि अर्प्यते अनेनेति करणव्युत्पत्त्या अर्पणं जहादि मन्त्रादि च एवमर्प्यतेस्माइति व्युत्पत्त्या अर्पणं देवतारूपं संप्रदान एवमप्यते अस्मिन्निति व्युत्पत्त्याऽर्पणमाधिकरणं देशकालादि नत्सर्व ब्राह्मणि कल्पितत्वाद्ब्रह्मैव रज्जुकल्पितभुजङ्गवदधिवानव्यतिरेकेणासदित्यर्थः एवं हविःत्यागप्रक्षेपक्रिययोः साक्षात्कम कारक तदपि ब्रह्मैव एवं यत्र प्रक्षिप्यतेऽनौ सोपि ब्रह्मैव ब्रह्मानाविति समस्तं पदं तथा येन का यजमानेनाध्वर्युणा च त्यज्यते प्राक्षिप्यते च तदुभयमाप कर्न कारण कर्तरि विहिनया नतीययानुद्य ब्रह्मेति विधीयते ब्रह्मणेति एवं हुतमिनि हवन त्यागक्रिया प्रक्षेपक्रिया च तदपि ब्रह्मैव तथा तेन हवनेन यद्गन्तव्यं स्वर्गादिव्यवहितं कर्म तदपि ब्रह्मैव अत्रत्यएवकारः सर्वत्र संबध्यते हुतमित्यत्रापि इतएव ब्रह्मेत्यनुषज्यते व्यवधानाभावात् साकाहत्वाच्च 'चित्पतिस्त्वापुनावित्यादावच्छिद्रेणत्यादिपरवाक्यशेषवत्' 8888888888888888885 ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतं // ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना // 24 // अनेन रूपेण कर्मणि समाधिः ब्रह्मज्ञानं यस्य सकर्मसमाधिस्तेन ब्रह्मविदा कर्मानुष्ठात्रापि ब्रह्म परमानन्दाद्वयं गन्तव्यमित्यनुषज्यते साकाङ्कत्वादव्यवधानाच 'या ते अग्ने रजाशयेत्यादौ तनूर्वर्षिष्ठेत्यादि' पूर्ववास्यशेषवत् अथवा अर्यतेऽस्मै फलायति व्युत्पत्त्याऽर्पणपदेनैव स्वर्गादिफलमपि ग्राद्य तथा च ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिनेत्युत्तरार्द्ध ज्ञानफलकथनायैवेति समंजसं अस्मिन्पक्षे ब्रह्मकर्मसमाधिनेत्येकं वा पदं पूर्व ब्रह्मपदं हुतमित्यनेन संबध्यते चरम गतव्यपदेनेति भिन्नं वा पदं एवं च नानुषङ्गव्यक्लेशइति द्रष्टव्यं ब्रह्मगन्तव्यमित्यभेदेनैव तत्प्राप्तिरूपचारात् अतएव न स्वर्गादि तुच्छफलं तेन गन्तव्यं विद्यया आविद्यककारकव्यवहारोच्छेदात् तदुक्तं वार्निककृद्धिः ‘कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते शुद्ध वस्तुनि सिद्धे च कारकव्यापतिः कुतइति' अर्पणादिकारकस्वरूपानुपमर्देनैव तत्र नामादाविव ब्रह्मवृष्टिः क्षिप्यते सम्पन्मात्रेण फलविशेषायति केषाञ्चिद्व्याख्यानं भाष्यकृगिरेव निराकृतं उपक्रमादि विरोधाद्ब्रह्मविद्याप्रकरणे सम्पन्मात्रस्याप्रसक्तरवादित्यादियुक्तिभिः // 24 // अधुना सम्यग्दर्शनस्य यज्ञरूपत्वेन स्तावकतया ब्रह्मार्प-12 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy