SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हितः अद्वितीयात्मदर्शनेन निरवृद्धिः अतएव समस्तुल्योयदृच्छालाभस्य सिद्धावसिौ च सिद्धौ न त्दृष्टः नाप्यसिद्धौ विषण्णः सस्वानभवनाकर्तेव परैरारोपितकर्तवः शरीरस्थितिमात्रप्रयोजनं भिक्षाटनादिरूपं कर्म कृत्वापि न निबध्यते बन्धहेतोः सहेतुकस्य कर्मणो जानामिना दग्धत्वादिति पूर्वोक्तानुवादः / / 22 / त्य कसर्वपरियहस्य यदृच्छालाभसन्तुष्टस्य योर्यच्छरीरस्थितिमात्रप्रयोजनं भिक्षाटनाविरूपं कर्म तत्कृत्वा न निबध्यतइत्युक्तेर्गहस्थस्य ब्रह्मविदोजनकादेर्यज्ञादिरूप यत्कर्म तद्वन्धहेतुः स्यादिति भवेत्कस्यचिदाशङ्का ताम। पनेतुं त्यक्त्वा कर्मफलासङ्गमित्यादिनोक्तं विवृणोति गतसङ्गस्य फलासङ्गशून्यस्य मुक्तस्य कर्तवभोक्तृत्वाद्यध्यासशून्यस्य ज्ञानावस्थितचेतसः निर्विकल्पब्रह्मात्मैक्यबोधएव स्थितं चित्तं यस्य तस्य स्थितप्रज्ञस्येत्यर्थः उत्तरोत्तरविशेषणस्य पूर्वपूर्वहेतुत्वेनान्वयोद्रष्टव्यः गतसङ्गत्वं कुतः यतोध्यासहीनत्वं तत् कुतीयतः स्थितप्रज्ञत्वमिति ईदृशस्यापि प्रारब्धकर्मवशात् यज्ञाय यज्ञसंरक्षणार्थ ज्योतिष्टोमादि गतसहस्य मुक्तस्य ज्ञानावस्थितचेतसः // यज्ञायाचरतः कर्म समयं प्रविलीयते // 23 // 525152515251 यज्ञे श्रेष्ठारत्वेन लोकमवत्यर्थ यज्ञाय विष्णवे तत्प्रीत्यर्थमिति वा आचरतः कर्म यज्ञदानादिकं समयं सहायेण फलेन विद्यइति समयं पविलीयते प्रकर्षण कारणोच्छेदेन तत्त्वदर्शनाहिलीयते विनश्यतीत्यर्थः // 23 // ननु क्रियमाणं कर्म फलमजनयित्वैव कुतोनश्यति ब्रह्मबोधे तत्कारणोच्छेदादित्याह अनेककारकसाध्या हि यज्ञादिक्रिया भवनि देवतोद्देशेन हि द्रव्यत्यागोयागः सएव त्यज्यमानद्रव्यस्यानो प्रक्षेपाद्धोमइत्युच्यते नत्रोरेश्या देवता संप्रदानं त्यज्यमानं द्रव्यं हविःशब्दवाच्यं साक्षाद्धात्वर्थ कर्म तत्फलंतु स्वर्गादिव्यवहितं भावनाकर्म एवं धारकत्वेन हविषोभी प्रक्षेपे साधकतमतया जुव्हादिकरणं प्रकाशकतया मन्त्रादिकरणमपि कारकव्यापकभेदेन द्विवध एवं त्यागामी प्रक्षेपश्च दे किये तबाद्यायां यजमानः कर्ता प्रक्षेपे तु यजमानपरिक्रीतोध्वर्युः प्रक्षेपाधिकरणं चाग्निः एवं देशकालादिकमप्याधिकरणं सच क्रियासाधारणं . द्रष्टव्यं तदेवं सर्वेषां क्रियाकारकादिव्यवहाराणां ब्रह्माज्ञानकल्पितानां | 1 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy