SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णमन्त्र स्थिते पुनरपि तस्य स्तुत्यर्थमितरान्यज्ञानुपन्यस्यति देवाइन्द्राग्न्यादयइज्यन्ते येन सदैवस्तमेव यज्ञ दर्शपूर्णमासज्योतिष्टोमादिरूपमपरे योगिनः कर्मिणः पर्युपासते सर्वदा कुर्वन्ति न ज्ञानयज्ञं एवं कर्मयज्ञमुक्त्वाऽन्तःकरणशुद्धिदारेण तत्कलभूतं ज्ञानयज्ञमाह | ब्रह्मानौ सत्यज्ञानानन्तानन्दरूपं निरस्तसमस्तविशेष ब्रह्म तत्पदार्थस्तस्मिन्नग्नौ यज्ञं प्रत्यगात्मानं स्वंपदार्थ यज्ञेनैव यज्ञशब्दआत्मनामसु | यास्केन पठितः इत्थंभूतलक्षणे तृतीया एवकारोभेदाभेदव्यावत्यर्थः त्वंपदार्थाभेदेनैव उपजुहति तत्स्वरूपतया पश्यन्तीत्यर्थः अपरे | पूर्वविलक्षणास्तत्वदर्शननिष्ठाः संन्यासिनइत्यर्थः जीपब्रह्माभेददर्शनं यज्ञत्वेन सम्पाद्य तत्साधनयज्ञमध्ये पठ्यते श्रेयान्द्रव्यमयाद्यज्ञा| ज्ञानयज्ञहत्यादिना स्तोतु // 28|| तदनेन मुख्यगीणी हो यज्ञभेदौ दर्शितौ यावद्धि किञ्चिदिक श्रेयःसाधन तत्सर्व यजखेन सम्पाद्यते तत्र | श्रोत्रादीनि ज्ञानेन्द्रियाणि तानि शब्दादिविषयेभ्यः प्रत्याहत्य अन्ये प्रत्याहारपराः संयमाग्निषु धारणा ध्यानं समाधिरिति त्रयमेकविषयं देवमेवापरे यज्ञं योगिनः पर्युपासते // ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुव्हति // 25 // | संयमशब्देनोच्यते तथा चाह भगवान् पतञ्जालः 'त्रयमेकत्रसंयमइतितत्र हत्पुण्डरीकादौ मनसचिरकालस्थापन धारणा एवमेकत्र धूतस्य चित्तस्य भगवदाकार वत्तिप्रवाहोन्तरान्याकारप्रत्ययव्यवहितोध्यानं सर्वथा विजातीयप्रत्ययानन्तरितः सजातीयप्रत्ययप्रवाहः स|माधिः सतु चित्तभूमिभेदेन विविधः संप्रज्ञातो संप्रज्ञातच चित्तस्य हि पञ्चभूमयोभवान्त क्षिप्रं मूह विक्षिप्तमेकाय निरुद्धमिति तत्र रागद्वेषादिवशाद्विषयेवभिानविष्टं क्षिप्तं तन्द्रादिग्रस्तं मढं सर्वदा विषयासक्तमपि कदाचिद्ध्याननिष्ठ क्षिप्ताद्विशिष्टतया विक्षिप्तं तत्र क्षिप्तमूहयोः समाधिश व नास्ति विक्षिणेतु चेतसि कदाचित्कः समाधिर्विक्षेपप्राधान्याद्योगपक्षे न वर्तते किंतु तीव्रपवनविक्षिमप्रदीपवत्स्वयमेव नश्यति एकायं तु एकविषयकधारावाहिकवत्तिसमर्थ सत्त्वोड्केण तमोगणकृततन्द्रादिरूपलयाभावादात्माकारवृत्तिः साच रजोगुणकृतचाञ्चल्यरूपविक्षेपाभावादेकविषयैवेति शुद्धे सखे भवति चित्तमेकार्य अस्यां भूमौ संप्रज्ञातः समाधिः तत्र ध्येयाकारा वृत्तिरपि भासते तस्यापि निरोधे निरुद्धं चित्तमसप्रज्ञातसमाधिभामिः तदुक्तं तस्यापि निराधे सर्व वृत्तिनिरोधानिर्बीजः समाधिरिति अयमेव सर्वतो For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy