________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.. च स्वप्रकाश दृग्वस्तुनि कल्पितं कर्म दृश्यं मायामयं न परमार्थसत् दृग्दृश्ययोः संघन्धानुपपत्तेः 'यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्व भूतेषु चात्मानं ततोन विजुगुप्सइतिश्रुतेः / एवं परस्पराभ्यासपि शुद्धं वस्तु यः पश्यति मनुष्येषु मध्ये सएव बुद्धिमानान्यः अस्य परमार्थदर्शित्वादन्यस्य चापरमार्थदर्शित्वात् सच बुद्धिसाधनयोगयुक्तः अन्तःकरणशुध्या एकाग्रचित्तः अतः सएवान्तःकरणशुद्धिसाधनकलनकर्मदिति वास्तवधभैरव स्तूयते यस्मादेवं तस्मात् त्वमपि परमार्थदर्शी भव तावतैव कृत्स्नकर्मकारित्वोपपत्तेरित्यभिप्रायः अतोयदुक्तं यत्ज्ञात्वा मोक्ष्यसऽशुभादिति यच्चोक्तं कर्मादीनां तत्त्वं बोव्यमस्तीति सबुद्धिमानित्यादिस्तुतिश्च तत्सर्वं परमार्थदर्शने सङ्गच्छते अन्यजानादशुभात्संसारान्मोक्षानुपपत्तेः अतस्त्वं चान्यत् नवोद्धव्यं न वा तत्ज्ञाने बुद्धिमत्वमिति युक्तैव परमार्थदार्शनां व्याख्या यत्तु व्याख्यानं कर्माण नित्ये परमेश्वरार्थेऽनुष्टीयमाने बन्धहेतत्वाभावादकर्मेदमिति यः पश्येत् तथा अकर्मणि च नित्यकर्माकरणे प्रत्यवायहेतुत्वेन कर्मेदमिति यः पश्येत् सबुद्धिमानित्यादि तदसद्भन्तमेव नित्यकर्मण्यकर्मेदामति ज्ञानस्याशुभमोक्षहेतुत्वाभावात् मिथ्याज्ञानत्वेन तस्यैवाशुभत्वाच नचैतादृशं मिथ्याज्ञानं बोद्धव्यं तत्त्वं नाप्येतादृशज्ञाने बुद्धिमत्वादिस्तुल्युपपत्तिर्धान्तत्वात् नित्यकर्मानुष्ठानं हि स्वरूपतो|न्तःकरणशुद्धिद्वारोपयुज्यते न तत्राकर्मबुद्धिः कुत्राप्युपयुज्यते शास्त्रेण नामादिषु ब्रह्मदृष्टिवदविहितत्वात् नापीदमेव वाक्य ताविधाय कमुपक्रमादिविरोधस्योक्तेः एवं नित्यकर्माकरणमपि स्वरूपतोनित्यकर्मविरुद्धकर्मलक्षकतयोपयुज्यते नतु तत्र कर्मदृष्टिः काप्युप| युज्यते नापि नित्यकर्माकरणात्प्रत्यवायः अभावाद्भावोत्पत्त्ययोगात अन्यथा तदविशेषेण सर्वदा कार्योत्पत्तिप्रसङ्गात् भावार्थाः कर्मशब्दास्तेभ्यः क्रियाप्रतीयतैषयोंविधीयतइति न्यायेन भावार्थस्यैवापूर्वजनकत्वात् 'अतिरात्रे षोडशिनं न गण्हातील्यादावापे सङ्कल्प विशेषस्यवापूर्वजनकत्वाभ्युपगमात् नेक्षेतोद्यन्तमादित्यमित्यादि प्रजापातश्रतवत् अतोनित्यकर्मानुष्ठानाहे काले तविरुद्धतया यदुपवेशनादि कर्म तदेव नित्यकर्माकरणोपलक्षितं प्रत्यवायहेतुरिति वैदिकानां सिद्धान्तः अतएवाकुर्वन्विहित कर्मेत्यत्र लक्षणार्थे शताः व्याख्याताः लक्षणहेत्वोः क्रियायाइत्यविशेषस्मरणेप्यत्र हेतुत्वानुपपत्तेः तस्मान्मिध्यादर्शनापनोहे प्रस्तुते मिथ्यादर्शनव्याख्यानं न शोभते तरां नापि सनिल्यानुष्ठानपरमेवैतवाक्यं नित्यानि कुर्यादित्यर्थे कर्मण्यकर्म यः पश्येदित्याद तदबोधक वाक्यं प्रयुंजानस्य भगवतः प्रतारकत्वापत्ते रित्यादि भाष्यएव विस्तरेण व्याख्यातमित्युपरम्यते ॥१८॥तदेतत्परमार्थदर्शिनः कर्तृत्वाभिमानाभावेन कर्मालिनत्वं प्रपञ्च्यते ब्रह्मकर्मसमाधि नेत्यन्तेन यस्य पूर्वोक्तपरमार्थदर्शिनः सर्वे यावन्तोवैदिकालौकिकाचा समारम्भा समारभ्यन्तहति व्युत्पत्या कर्माणि कामसङ्कल्पवर्जिताः For Private and Personal Use Only