SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु सर्वलोकप्रसिद्धत्वादहमेवैतज्जानामि देहेन्द्रियादिव्यापारः कर्म तूष्णीमासनमकर्मेति तत्र किं त्वया वक्तव्यमिति तत्राह हिं यस्मात् कर्मणः शास्त्रविहितस्यापि तत्त्वं बोद्धव्यमस्ति विकर्मणश्च प्रतिषिद्धस्य अकर्मणश्व नष्णींभावस्य अत्र वाक्यत्रयेपि तत्त्वमस्तीत्यध्याहारः यस्मात् गहना दुर्जाना कर्मणइत्युपलक्षणं कर्माकर्मविकर्मणां गतिस्तत्त्वमित्यर्थः // 17 // कीदृशं तर्हि कर्मादीनां तत्त्वमिति तदाह कर्मणि देहेन्द्रियादिव्यापारे विहिते प्रतिषिद्धे च अहं करोमीति धर्मा(H)ध्यासेनात्मन्यारोपिते नौस्थेनाचलत्सु तटस्थवृक्षादिषु समारोपिते चलनइव अकात्मस्वरूपालोचनेन वस्तुतः कर्माभावं तटस्थवृक्षादिष्विव यः पश्येत् पश्यति तथा देहेन्द्रियादिषु त्रिगुणमायापरिणामत्वेन सर्वदा सव्यापारेषु निर्व्यापारतृष्णीं सुखमासइत्यभिमानेन समारोपितेऽकर्मणि व्यापारोपरमे दूरस्थचक्षुःसनिकृष्टपुरुषेषु गच्छत्स्वप्यगमनहव सर्वदा सव्यापारदेहेन्द्रियादिस्वरूपपर्यालोचनेन च वस्तुगत्या कर्मनिवृत्याख्यप्रयत्नरूपं कर्मणोह्यपि वोडव्यं बोहव्यं च विकर्मणः॥ अकर्मणश्च वोडव्यं गहना कर्मणोगतिः।।१७॥ कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः॥सबुद्धिमान्मनुष्येषु सयुक्तः कृत्स्नकर्मत् // 18 // व्यापार यः पश्येदुदाहृतपुरपेषु गमनमिव औदासिन्यावस्थायाम युदासीनोहमासइत्यभिमानएव कर्म एतादृशः परमार्थदर्शी सबुद्धिमानित्यादिना बुद्धिमत्वयोगयुक्तत्वसर्वधर्मकृत्वैखिभिर्धः स्तूयते अत्र प्रथमपादेन कर्मविकर्मणोस्तत्त्वं कर्मशब्दस्य विहितप्रतिषिद्धपरत्वात् द्वितीयपादन चाकर्मणस्तत्वं दर्शितमिति द्रष्टव्यं तत्र यत्त्वं मन्यसे कर्मणोबन्धहेतुत्वात्तूष्णीमेव मया सुखेन स्थानव्यमिति तन्मषा असति कर्तृत्वाभिमाने विहितस्य प्रतिषिद्धस्य वा कर्मणोबन्धहेतुत्वाभावात् तथा च व्याख्यातं न मां कर्माणि लिम्पन्तीत्यादिना सति च कर्तृत्वागाभिमाने दृष्णीमहमासइत्यौदासिन्याभिमानात्मकं यत्कर्म तदपि बन्धहेतुरेव वस्तुतत्त्वापरिज्ञानात् तस्मात् कर्मविकर्माकर्मणां तत्त्वमी दृशं ज्ञात्वा विकर्माकर्मणि परित्यज्य कर्तत्वाभिमानफलाभिसन्धिहानेन विहितं कर्मैव कुर्वित्यभिप्रायः अपरा व्याख्या कर्मणि ज्ञानकर्मणि दृश्ये जड़े सद्रूपेण स्फुरणरूपेण चानुस्यूतं सर्वभ्रमाधिष्टानमकर्म अवेद्यं स्वप्रकाशचैतन्यं परमार्थदृष्ट्या यः पश्येत् तथा अकर्मणि For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy