SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | कामः फलतृष्णा सङ्कल्याहं करोमीति कर्तृत्वाभिमानस्ताभ्यां वर्जिताः लोकसंग्रहार्थ वा जीवनमात्रार्थ वा प्रारब्धकर्मवेगाथाचेष्टारूपाभवन्ति तथा कर्मादावकर्मादिदर्शनं ज्ञानं तदेवानिस्तेन दग्धानि शुभाशुभलक्षणानि कर्माण यस्य तदधिगमउत्तरपूर्वाधयोरश्लेषविनाशी तव्यपदेशादिति न्यायात् ज्ञानानिदग्धकाणं तं बुधाः ब्रह्मविदः परमार्थतः पण्डितं आहुः सम्यग्दर्शी हि पण्डितउच्यते नतु भान्तइत्यथः // 19 // भवतु ज्ञानाग्निना प्राक्तनानामग्रारब्धकर्मणां दाहः आगामिनांचानुत्पत्तिः ज्ञानोत्पत्तिकाले क्रियमाणं तु पूर्वोत्तरयोरनन्तभीवात् फलाय भवेदिति भवेत्कस्यचिदाशङ्का तामपनुदति कणि फले चासङ्गं कर्तत्वाभिमानं भोगाभिलाषंच त्यक्त्वा अकञभोक्त्रात्मसम्यग्दर्शनेन बाधितत्वान्नित्यतमः परमानन्दस्वरूपलाभेन सर्वत्र निराकाङ्कः निराश्रयः आश्रयोदेहेन्द्रियादिरदैनदर्शनेन निर्गतोयस्मान् | यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः // ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः // 19 // त्यक्त्वा कर्मफलासझं नित्यतृप्तोनिराश्रयः // कर्मण्यभिप्रवृत्तोपि नैव किञ्चिकरोति सः // 20 // सनिराश्रयोदेहेन्द्रियाद्यभिमानशुन्यः कलकामनायाः कर्तृत्वाभिमानस्य च निवृत्ती हेतुगर्भ क्रमेण विशेषणद्वयं एवंभूतोजीवन्मुक्तोव्युत्त्थान दशायां कर्मणि वैदिके लौकिके वा अभिप्रवृत्तोपि प्रारब्धकर्मवशाल्लोकदृष्ट्याभितः साङ्गोपाङ्गानुष्टानाय प्रवृत्तोपि स्वदृष्ट्या नैव किंचित् करोति सः निष्क्रियात्मदर्शनेन बाधितत्वादित्यर्थः // 20 // यदात्यन्तविक्षेपहेतोरपि ज्योतिष्टोमादेः सम्यग्ज्ञानवशात् न तत्फलजनकत्वं तदा शरीरास्थितिमात्रटेतोरविक्षेपकस्य भिक्षाटनादेस्त्येिव वन्धहेतुत्वमिति कैमुत्यन्यायेनाह निराशीर्गततृष्णः यतचित्तात्मा चित्तमन्तःकरण आत्मा बाह्येन्द्रियसहितोदेहस्तौ संयती प्रत्याहारेण निगृहीती येन सः यतोजितेन्द्रियोऽतोविगततृष्णत्वात् त्य कसर्वपरिग्रहः त्यक्ताः सर्वे परियहाभोगोपकरणानि येनः सः एतादृशोपि प्रारब्धकर्मवशात् शारीरं शरीर For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy