________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.४. जन्म नित्यसिद्धस्यैव मम सच्चिदानन्दधनस्य लीलया तथानुकरणं कर्म च धर्मसंस्थापनेन जगत्परिपालनं मे मम नित्यासिद्धेश्वरस्य दिव्यमप्राकृतमन्यैः कर्तुमशक्यमीश्वरस्यैवासाधारणं एवमजोपि सन्नित्यादिना प्रतिपादितं योवेत्ति तत्त्वतोभ्रमानवर्तनेन मूर्हि मनुष्यत्वभ्रान्त्या भवतोपि गर्भवासादिरूपमेव जन्म स्वभोगार्थमेव कर्मेत्यारोपितं परमार्थतः शुद्धसच्चिदानन्दवनरूपत्वज्ञानेन तदपनुद्य अजस्यापि | मायया जन्मानुकरणमकरपि परानुग्रहाय कर्मानुकरणमित्येवं योवेत्ति सआत्मनोपि तत्त्वस्फुरणान् त्यस्त्वा देहमिमं पुनर्जन्म नैति किंतु मां भगवन्तं वासुदेवमेव सच्चिदानन्दघनमेति संसारात् मुच्यत इत्यर्थः हे अर्जुन // 9 // मामेति सोर्जुनेत्युक्तं तत्र स्वस्य सर्वमुक्तप्राप्यतया पुरुषार्थवं अस्य मोक्षमार्गस्यानादिपरंपरागतत्वं च दर्शयति रागस्तकलं तृष्णा सर्वान्विषयान्परित्यज्य ज्ञानमार्गे कथं जीवितव्यामिति त्रासोभयं सर्वविषयोच्छेदकोयं ज्ञानमार्गः कथं हितः स्यादिति द्वेषः क्रोधः तएते रागभयक्रोधावीताविवेकेन विगतायेभ्यस्ते वीतरागभयजन्म कर्म च मे दिव्यमेवं योवेत्ति तत्त्वतः॥ त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोर्जुन // 9 // वीतरागभयक्रोधामन्मयामामुपाश्रिताः // वहबोज्ञानतपसा पूतामद्भावमागताः॥१०॥ क्रोधाः शृद्धसत्वाः मन्मयाः मां परमात्मानं तत्पदार्थ त्वंपदार्थाभेदेन साक्षात्कृतवन्तः मदेकचित्तावा मामुपाश्रिताः एकान्तप्रेमभक्त्या मामीश्वरं शरणंगताः बृहवोनेके ज्ञानतपसा ज्ञानमेव तपः सर्वकर्मक्षयहेतुत्वात् न हि ज्ञानेन सदृशं पवित्रमिह विद्यतइति हि वक्ष्यति तेन पताः क्षीणसर्वपापाः सन्तोनिरस्ताज्ञानतत्कार्यमलाः मद्भावं मद्रूपत्वं विशुद्धसचिदानन्दघनं मोक्षमागताः अज्ञान| मात्रापनयेन मोक्ष प्राप्ताः ज्ञानतपसा पूताजीवन्मुक्ताः सन्तोमद्भावं मद्विषयं भावं रत्याख्यं प्रेमाणमागताइति वा तेषां ज्ञानी नित्ययुक्तएकभक्तिविशिष्यतइति हि वक्ष्यति // 10 // ननु ये ज्ञानतपसा पूतानिष्कामास्ते स्वद्भाव गच्छन्ति येत्वपूताः सकामास्ते नगच्छन्तीति फलदातुस्तव वैषम्यनघण्ये स्यातामिति नेत्याह ये आर्ताः अर्थिनोजिज्ञासवोज्ञानिनश्च यथा येन प्रकारेण सकामतया निष्कामतया च मामीश्वरं सर्वफलदातारं प्रपद्यन्ते भजन्ति तांस्थथैव तदपोक्षित // 51 // For Private and Personal Use Only