________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रहोनान्यः कश्चिद्भौतिको मायकोवेति अस्मिन्पक्षे योजना आकाशवत्सर्वगतश्च नित्यः ‘अविनाशी वा अरेऽयमात्माऽनुच्छित्तिधर्मेत्यादिश्रुतेः' असंभवस्तु सनोनुपपत्तेः नात्माश्रुनर्नित्यत्वाच ताभ्यइत्यादिन्यायाच वस्तुगत्या जन्मपिनाशरहितः सर्वभासकः सर्वकारणमायाधिष्ठानत्वेन सर्वभूतेश्वरोपि सत्रह प्रकृति स्वभावं सच्चिदानन्दवनैकरसं मायां व्यावर्तयति स्वामिनि निजस्वरूपमित्यर्थः | 'सभगवः कस्मिन्प्रतिष्टितः स्व महिनि इतिश्रुतेः स्वस्वरूपमाधिष्टाय स्वरूपावस्थितएव सन् संभवामि देहदेहिभावमन्तरेणैव देहिवयवहारामि कथं तदेहे सच्चिदानन्दधने देहत्वप्रतीतिरतआह आत्ममाययेति निर्गुणे शुद्धे सच्चिदानन्दरसघने मयि भगवति वासुदेवे देहदेहिभावशून्ये नद्रूपेण प्रतीनिर्मायामात्रमित्यर्थः तदुक्तं 'कृष्णमेनमवेहि त्वमात्मान मखिलात्मनां जगद्धिताय सोप्यत्र देहीवाभाति माययेतिः 'अहोभाग्यमहोभाग्यं नन्दगोपनजौकसां यन्मित्रं परमानन्दं पूर्ण ब्रह्म सनातनमितिच केचित्तु नित्यस्य निरवयवस्य निर्विकारस्यापि परमानन्दस्यावयवावयविभावं वास्तवमेवेच्छन्ति ते नियुक्तिकं ब्रुवाणास्तु नास्माभिर्विनिवार्यतइति न्यायेन नापवाद्याः यदि संभवेत्तथैवास्तु | यदा यदा हि धर्मस्य ग्लानिर्भवति भारत // अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् // 7 // परित्राणाय साधूनां विनाशाय च दुष्कृताम् // धर्मसंस्थापनार्थाय संभवा मि युगे युगे // 8 // किमतिपल्लविनेनेत्युपरम्यते // 6 // एवं सच्चिदानन्दघनस्य तव कदा किमर्थं वा देहियद्वयवहारइति तत्रोच्यते धर्मस्य वेदविसाहितस्य प्राणिनॉमभ्यदयनिःश्रेयसाधनस्य प्रवत्तिनिवत्तिलक्षणस्य वर्णाश्रमतदाचारव्यंग्यस्य यदा यदा ग्लानिर्हानिर्भवति || | हेभारत भरतवंशोद्भवत्येन भा ज्ञानं तत्र रतत्वेन वा वं न धर्महानिं सोडुं शक्नोषीति संवोधनार्थः एवं यदा यहाऽभ्युत्थान मुद्भवोऽधर्मस्य वेदानेपिद्धस्य नानाविधःख साधनस्य धर्मविरोधिनः तदा तदाऽऽत्मानं देहं सृजामि नित्यासद्धमेवं सटमिव दर्शयामि मायया // 7 // तकि धर्मस्य हानिरधर्मस्य च वृद्धिस्तव परितोषकारणं येन तस्मिन्नेव कालआविर्भ-| वसीति तथा चान वहएव तवावतारः स्यादिति नेत्याह धर्महान्या हीयमानानी साधूनां पुण्यकारिणां वेदमार्गस्थानां परित्राणाय परितः सर्वतोरक्षणाय तथाऽधर्मवृद्ध्या वर्धमानानां दुष्कृतां पापकारिणां वेदमार्गविरोधिनां विनाशाय च तदुभयं कथं स्यादिति तदाह |धर्मसंस्थापनार्थाय धर्मस्य सम्यगधर्मनिवारणेन स्थापनं वेदमार्गपरिरक्षणं धर्मसंस्थापनं तदर्थ संभवामि पर्ववत युगे युगे प्रतियुगम // 8 // 8525152515252515255251525152515256 | For Private and Personal Use Only