________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir गी. म. अ.. // 49 // यएवं पूर्वमुपदिष्टोप्यधिकार्यभावादिच्छिनसम्प्रदायोभून यं विना च पुरुषार्थोन लभ्यते सएवायं पुरातनोऽनादिगुरुपरंपरागतोयोगोद्य | सम्प्रदायविच्छेद काले मयाऽतिस्निग्धेन ते तुभ्यं प्रकर्षणोतः नत्वन्यस्मै कस्मेचित् कस्मात् भक्तोसि मे सरवाचेति इतिशब्दोदेतौ यस्मात्वं मम भकः शरणागतये सत्यत्यन्तप्रीतिमात्र सखा च समानवयाः स्निग्धसहायोसि सर्वदा भवसि अतस्तुभ्यमुक्तइत्यर्थः अन्यसौ कुतोनोच्यते तत्राह हि यस्मादेतत्जानमुत्तमं रहस्य अतिगोप्यं // 3 // या भगवति वासुदेवे मनुष्यत्वेनासर्वज्ञत्वानित्यत्वाशङ्का मृर्खाणां तामपनेनुमनुवदन्नर्जुन आशङ्कले अपरमल्पकालीनमिदानीन्तनवसुदेवगहे भवतोजन्म शरीरग्रहणं विहीनञ्च मनुव्यत्वान् परं बहुकालीनं सर्गादिभवं उत्कृष्टञ्च देवत्वात् विवस्वतोजन्म अत्रात्मनोजन्माभावस्य प्राग्व्युत्पादितत्वाइहाभिप्रायेणैवार्जु सएवायं मया तेऽद्य योगः प्रोक्तः पुरातनः॥भक्तोसि मे सखा चेति रहस्यं ह्येतदुत्तमम्॥ 3 // // अर्जुन उवाच // अपरं भवतो जन्म परजन्म विवस्वतः // कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति // 4 // नस्य प्रभः अतः कथमेतद्विजानीयामातविरुद्धार्थतया एतच्छब्दार्थमेव विवृणोति त्वमादौ प्रोक्तवानिति त्वमिदानीन्तनोमनुष्योऽसर्वज्ञः सर्गादौ पूर्वतनाय सर्वज्ञायादित्याय प्रोक्तवानिति विरुद्धार्थमेतदिति भावः अत्रायं निर्गलितोर्थः एतदेहावच्छिन्नस्य तव देहान्तरावच्छेदेन वा आदित्यं प्रत्युपदेतृत्वं एतहेहेन वा नाद्यः जन्मान्तरानुभूतस्यासर्वज्ञेन स्मर्तुमशस्यत्वान् अन्यथा ममापि जन्मान्तरानुभूतस्मरणप्रसङ्गः तव मम च मनुष्यत्वेनासर्वज्ञत्वाविशेषात् तदुक्तमाभयुक्तैः 'जन्मान्तरानुभूतञ्च न स्मर्यतइति' नापि द्वितीयः सर्गादाविदानीन्तनस्य देहस्यासनाधान तदेवं देहान्तरेण सर्गादौ समावसंभवेपीदानीन्तनस्मरणानुपपत्तिः अनेन देहेन स्मरणोपपत्तावपि सर्गादौ सद्भावानुपपत्तिरित्यसर्वज्ञत्वानित्यत्वाभ्यां द्वावर्जुनस्य पूर्वपक्षौ // 4 // तत्र सर्वज्ञत्वेन प्रथमस्य परिहारं जन्मानि लीलादेहग्रहणानि | लोकदृष्ट्यभिप्रायेणादित्यस्योदयवन्मे मम वहूनि व्यतीतानि तव त्राज्ञानिनः काजितानि देहग्रहणानि तव चेत्युपलक्षणमितरेषामपि // 19 // For Private and Personal Use Only