________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः अथ चतुर्थाध्यायः प्रारभ्यते // यद्यपि पूर्वमपेयत्वेन ज्ञानयोगस्तदुपायत्वेन च कर्मयोगइति हौ योगी कथितौ तथाप्येकं साङ्यञ्च योगञ्च यः पश्यति सपश्यतीत्यनया दिशा साध्यसाधनयोः फलैक्यादैक्यमुपचर्यसाधनभूतं कर्मयोगं साध्यभूतञ्च ज्ञानयोगमनेकविधगुणविधानाय स्तौति वंशकथनेन भगवान् इममध्यायहयेनोक्तं योगं ज्ञाननिष्ठालक्षणं कर्मनिष्टोपायलभ्य विवस्वते सर्वक्षत्रियवंशबीजभूतायादित्याय प्रोक्तवान् प्रकर्षेण सर्वसन्देहोरछेदादिरूपेणोक्तवानह भगवान् वासुदेवः सर्वजगत्परिपालकः सर्गाटिकाले राज्ञां बलाधानेन तदधीनं सर्वजगत्पालयितुं कथमनेन बलाधानमिति विशेषणेन दर्शयति अव्ययं अव्ययवेदमूलस्वादश्ययमोक्षफलत्वाच नव्येति स्वफलादित्यव्ययमव्यभिचारिफलं तथाचैतावृशे नवलाधानं शम्यमिति भावः सच मम शिष्योविवस्वान् मनवे वैवस्वताय स्त्रपुत्राय प्राह सच मनुरिल्याकवे स्वपुत्रायादिराजायात्रवीत् यद्यपि प्रतिमन्वन्तरं स्वायम्भुवमन्वादिसाधारणोयं // श्रीभगवानुवाच // इमं विवस्वते योगं प्रोक्तवानहमव्ययम् // विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेब्रवीत् // 1 // एवं परंपराप्राप्तमिमं राजर्षयोविदुः // सकालेनेह महता योगोनटः परन्तप // 2 // भगवदुपदेशस्तथापि साम्पातकवैवस्वतमन्वन्तराभिप्रायणादित्यमारभ्य सम्पदायोगणितः // 1 // एवमादित्यमारभ्य गुरुशिष्यपरंपरया पाताममं योग राजानश्च ते ऋषयथेति राजर्षयः प्रभुत्वेसति सूक्ष्मार्थनिरीक्षणक्षमानिमिप्रमुखाः स्वपित्रादिप्रोक्तम् विदुः तस्मादनादिवेदमूलत्वे नानन्तफलवेनामादिगुरुशिष्यपरंपराप्राप्तत्वेन च कृत्रिमत्वशङ्कानास्यदत्वात् महाप्रभावोयं योगइति श्रद्धातिशयाय स्तूयते सएवं महाप्रयोजनोपि योगः कालेन महता दीर्येण धर्मन्हासकरेण इह इदानीमावयोयवहारकाले द्वापरान्ते दुर्बलानजितेन्द्रियाननधिकारिणः प्राप्य कामक्रोधादिभिरभिभूयमानोनष्टः विच्छिन्नसम्प्रदायोजातः तं विना पुरुषार्थाप्राप्तः अहो दौर्भाग्यं लोकस्येति शोचति भगवान् हे परन्तप परं कामक्रोधादिरूपं शत्रुगणं शौर्येण बलवता विवेकेन तपसा च भानुरिव तापयतीति परन्तपः शत्रुतापनोजितेन्द्रियइत्यर्थः उर्वदयुपेक्षणाद्यद्भुतकर्मदर्शनात् तस्मात् त्वं जितेन्द्रियत्वादत्राधिकारीति सूचयति // 2 // 5252515251525152525155251525252525 For Private and Personal Use Only