________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतम
पृच्छा ॥
॥८७॥
***
*******
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तर:- ( तदा परमकृपालु भगवान् कथयति - हे गोयम ! )
गाथा — गोमहिसं खरकरहूं, अइभारारोपणेण पोडेइ । एएण पावकम्मेण, गोयम । सो भवे खुज्जो ।। ४६ ।।
व्याख्या:- यः पुरुषो वृषभमहिषखरौष्ट्राणामतिभारारोपणेन पीडयति, तेन पापकर्मणा हे गौतम ! स जीवः कुब्जो भवति, धनावहपुत्रधनदत्तवत् ॥ ४६ ॥
अत्र धनदत्तधनश्रियोः कथा यथा
भूमिमण्डननगरे शत्रुदमनो राजा राज्यं करोति । तत्र नगरे धनाभिधः श्रेष्ठी । तस्य च धीरूनाम्नी वनिता वर्तते । स श्रेष्ठी भटकेनाजीविकां करोति । तस्य गृहे बहुपोष्टिकोष्ट्रिकवर महिषाणां संग्रहोऽस्ति । स लोभेन तेषामुपरि बहुभारं वाहयित्वा बहुभाटकं समर्जयति ।
एकदा कचित्साधुस्तस्य गृहे आहारार्थं समागतः । तस्मै दानं दत्वा तेन शुभं कर्मोपार्जितम् । प्रान्ते स स्वायुः पूर्णी - कृत्य तस्मिन्नेत्र नगरे धनावहश्रेष्ठिनो गृहे धनदत्ताख्यः पुत्रोऽभूत् । परं स कुब्जो जातः । स धनदत्तो वाणिज्यकलायां कुशलो बभूव ।
अथ तस्मिन्नेव नगरे कश्चिद्धनाख्यः श्रेष्ठी वसति । तस्य गृहे धीरूजीवो मृत्वा धनश्रीनाम्नी पुत्रिका जाता। सा धनश्री रूपवती गुणवती यौवनवयः प्राप्य पूर्वस्नेहवशात्तं कुब्जं धनदत्तं भर्तारं वाञ्छति । तस्य धनश्रेष्ठिनो द्वितीयाप्येका
For Private And Personal Use Only
*************************
एकत्रिंश
त्तमप्रश्नः ॥
॥८७॥