SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतमपृच्छा ॥ ॥८३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रोहिण्याच वल्लभोऽभूः । युवाभ्यां रोहिणीतपःकरणाद्युवयोः परस्पराधिकः स्नेहो जातः । अथ त्वं पुत्राणां कारणं शृणु मथुरायामशर्माख्यो विप्रो वसति । तस्य सप्त पुत्राः । परं ते 'दरिद्रिणः । एकदा पाटलीपुत्रनगरे ते सप्तापि भ्रातरो भिक्षार्थं गच्छन्ति । तदा वाटिकामध्ये कश्चिद्राजकुमारः कन्दर्पावतारः क्रीडति । तं दृष्ट्वा शिवशर्मा स्ववान्धवान् वक्ति - " भो भ्रातरो विधिना कियदन्तरं कृतमस्ति । अयं राजकुमारो मनोवाञ्छितं सुखं भुनक्ति, वयं च भिक्षार्थी गृहे गृहे भ्रमामः । " तदैकेन भ्रात्रोक्तम् - " अस्मिन् विषये कस्योपालंभो दीयते ? पूर्वभवेऽस्माभिः पुण्यं न कृतं, अनेन राजकुमारेण च सुकृतं कृतं, अताऽसौ सुखं भुनक्ति । " तदा तैः सर्वैरपि ब्राह्मणपुत्रैवर्जीयायुतं धर्मं पालयित्वा प्रान्ते गुरोः पार्श्व दीक्षा गृहीता । मृत्वा च ते सप्तमे देवलोके देवा जाताः । ततश्युत्वा तत्र गुणपालादय इमे सप्त पुत्रा अभूवन् । तवाष्टमपुत्रजीवश्च वैताढयवासी क्षुल्लक विद्याधरोऽभूत् । स निरन्तरं नन्दीश्वरद्वीपे शाश्वतीजिनप्रतिमा अपूजयत् धर्मं चा करोत् । स विद्याधरो मृत्वा सौधर्मे देवो जातः । ततश्च च्युत्वा तत्रायमष्टमो लोकपालाख्यपुत्रो बभूव । अथ चतसृणां पुत्रीणां सम्बन्धं शृणु Tara eat विद्याधर आसीत् । तस्य चत्वारः पुत्रिका अभवन् । ता महारूपवत्यो गुणवत्यश्रासन् । एकदा वनमध्ये क्रीडन्त्यस्ता गुरुभिर्दृष्टाः, आलापिताश्च - " भो पुग्यो यूयं धर्मं कुरुध्वम्, युष्माकमायुरेकदिनप्रमाणमेव विद्यते" । ताभिरुक्तम् — “हे भगवन् । एकदिनमध्ये को घर्मो भविष्यति ? " तदा गुरुभिरुक्तम् - " यूयमय शुक्लज्ञानपञ्चमीतपः For Private And Personal Use Only एकोनत्रिंश प्रश्नः ॥ १८३॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy