SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतमपृच्छा ॥ ॥७९॥ ********* www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तदा वीतशोकराज्ञा तस्य पुत्रप्रवेशमहोत्सवः कृतः कुमारोऽपि रोहिण्या सह विषयसुखानि भुनक्ति । अथैकदा शुभे दिनेsशोककुमारस्य राज्यं दत्वा वीतशोको राजा दीक्षां गृहीतवान् । ततोऽशोकराजा सुखेन राज्यं पालयति । क्रमेणाशोकराज्ञोऽष्टौ पुत्राश्चतस्त्रश्च पुत्रिका जाताः । अकदा राहिया सहितो राजा सप्तम्यां भूम्यां गवाक्षे स्थितो लोकपालाख्यं पुत्रमुत्सङ्गे वृत्वा क्रीडयति । तस्मिन् समये नगरे कस्याश्चित् स्त्रियः पुत्रो मृतः । सा खी रुदती विलापांथ कुर्वन्ती तस्मिन् मार्गे समागता । तां दृष्ट्वा रोहिण्या राज्ञे पृष्टम् -" भो महाराज ! किमिदं नृत्यम् ? राजा जगाद - हे प्रिये । त्वं साहंकारं वचनं मा ब्रूहि ?" रोहिण्योक्तम्"स्वामिन्नमहंकारं न करोमि । एवंविधं नृत्यं मया कदापि न दृष्टं, अतोऽहं पृच्छामि ।" तदा राज्ञेोक्तमेतस्याः स्त्रियः पुत्र मृतोऽस्ति । अत एवेयं रुदनं करोति । " रोहिण्योक्तम् - "हे स्वामिन्नस्या रुदनं केन शिक्षितं भवेत् ?" तत् श्रुत्वा राज्ञोक्तम् - "तवाप्यहं रुदनं शिक्षयामि " इत्युक्त्वा रोहिण्युत्सङ्गस्थं तस्या लघीयांसं पुत्रं लोकपालाख्यं राजा निजहस्तेन भूमावपातयत् । तदा तत्रस्थाः सर्वे जनास्तं तथा पतन्तं दृष्ट्वा दाहारखं कर्तुं लग्नाः । परं रोहिण्या हृदि किञ्चिन्मात्रमपि दुःखं न जातम् । इतस्तं पततं बालकं नगराधिष्टितेन देवेन धृत्वा सिंहासने स स्थापितः । तद् दृष्ट्वा सर्वे जनाचमत्कृताः सन्तो विचारयामासुः - ' नूनमयं रोहिणी धन्यैव या दुःखस्य वार्तामपि न जानाति ।' इतस्तत्र श्री वासुपूज्यतीर्थंकरस्य रूप्यकुम्भस्वर्णकुम्भनामानौ द्वौ शिष्यौ ज्ञानवन्तौ तत्र समागतौ । तदा राजा For Private And Personal Use Only **** एकोनत्रिंश प्रश्नः ॥ ॥७९॥
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy