________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा। ॥७८॥
एकोनत्रिंशप्रश्न: ॥
भिधाना कुष्टिनी जाता साधोः कटुतुम्बकाहारदानात् ।।४४॥
रोहिणीकथो चेत्थम्श्रीवासुपूज्यमानम्य, तथा पुण्यप्रकाशकम् । रोहिण्याच कथायुक्त, रोहिणीव्रतमुच्यते ॥१॥
श्रीचम्पापुर्या श्रीवासुपूज्यस्य पुत्रो मघवाभिधो राजा राज्यं करोति । तस्य लक्ष्मीनाम्नी राज्ञी सुशीला सदाचारा च वर्तते । तस्या अष्टौ पुत्राः सन्ति । अष्टानां पुत्राणामुपर्येका रोहिणीनाम्नी पुत्री वर्तते । सा चतुःषष्टिकलावती रूपलावण्यवती सौभाग्यगुणवती च जाता । अथ क्रमेण सा यौवनावस्थां प्राप्ता। ईदृशीं तां दृष्ट्वा राजा चिन्तयति-'नूनमियं रोहिणी वरयोग्या जाताऽस्ति।
अथ राज्ञा स्वयंवरमण्डपं मण्डयित्वा सर्वेऽपि राजकुमारा आकारिताः । तेऽपि च मण्डपे समागत्य स्थिताः। तस्मिन्नवसरे रोहिण्याप स्नानं विलेपनं च कृत्वा क्षीरोदकसदृशे श्वेतवस्त्रे परिधाय मुक्ताभरणैरलंकृता साक्षादेवीव शिविकायां स्थित्वा | सरवीभिः परिवृता तत्रागता । अथैका सरवो तां रोहिणी पुरस्कृत्य तस्या अग्रे राजकुमाराणां नामगोत्रबलवयोयशःप्रभृतीनां | वर्णनं करोति । अथ तयाऽन्यान् सर्वानपि राजकुमारान् वर्जयित्वा नागपुरराज्ञो वीतशोकस्य पुत्रोऽशोककुमाराभिधो वृतः। तस्य कण्ठे च तया निजवरमाला क्षिप्ता । ततोऽन्ये सर्वेऽपि राजकुमाराः सहर्षा मिलित्वा तं च तया सह विवाह्य ततो भोजनवस्त्राभरणताम्बूलादि गृहीत्वा स्वगृहे गताः। ___ अशोककुमारोऽपि तत्र कतिचिदिनानि स्थित्वा सवधूको हस्त्यश्ववस्त्राभरणादियुतः प्रस्थाय नागपुरसमोपे समागतः।
张晓蒂諾懿聯聚樂器樂部聯茶器端能够夢號樂器樂器继器聽器
॥७८॥
For Private And Personal Use Only