SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *** श्री गौतमपृच्छा ॥ ॥७४॥ पइविंशतितमप्रश्नः ॥ * 發強藥殘遊強強聯聚张继強強聯蓝染號密 येण हतोऽसौ निहूणो मृत्वा नरकं गतः। विहणस्तु भ्रातुर्मरणं श्रुत्वा वैराग्यादनशनं विधाय सौधर्मे सुरो जातः। ततश्च | च्युत्वा तव गृहे स देशलनामायं तव पुत्रोऽभूत् । निहगजीवस्तु नरकानिःसृत्याऽयं तव देदाभिधो द्वितीयः पुत्रोऽभूत् । परं पूर्वभवे पशुपक्षिबालानां वियोगकरणादत्रापुत्रकाऽयं जातः । देशलेन च तृषार्तानां क्षुधार्तानां च दया कृता, तेनायं | च सपुत्रको जातः।" इति गुरोर्वचांसि श्रुत्वा जातजातिस्मरणो देसलो निजपूर्वभवं दृष्ट्वा सम्यक्त्वमूलं श्राद्धधर्म च प्रतिपद्य क्रमेण च दीक्षा गृहीत्वा तपः कर्तु लग्नः । अथ स विद्याचारणमुनिर्नभोमार्गेण गतः। स देसलमुनिरप्यनशनं विधाय मृत्वा च प्रथमे देवलोके देवो जातः। उक्तं च-" जीवदया जिणवर कही, जे पाले नर नारी । पुत्र हुवे सूरा सबल, तेहने रंग मोझारि"॥१॥ ॥ इति देसलदेवयोः कथा समाप्ता ॥ __ अथ सप्तविंशतितम प्रश्नोत्तरमाह सप्तविंशतितमप्रश्न:-(श्री गौतमस्वामी पृच्छति-हे करुणानिधे ! हे दयासागर ! हे भगवन् ! केन कर्मणा जनो बधिरो भवति ?)" उत्तरः-(तदा श्रीमहावीरप्रभुः कथयति-हे गौतम!) गाथा-जो असुयं भणइ सुयं, सो बहिरो जायए पुरिसो ॥ ४२ ॥ व्याख्याः -यः पुरुषोऽश्रुतमपि किंचिन्मया श्रुतमिति कथयति स पुरुषो बधिरो जायते ॥ ४२ ॥ 弟樂器錄器张馨麥紫染柴柴柴茶继染聯強能带张 ॥७४॥ For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy