________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीगौतमपृच्छा ॥ ॥७५॥
सप्तविंशतितमाष्टाविशतितमप्रश्नो॥
聚器跳跳跳弟弟验器能聽器聽苏张继蒂蒂蒂张聯验器端验整张
अष्टाविंशतितमप्रश्न:-(अथ अष्टाविंशतितम प्रश्नोत्तरमाह-गौतमस्वामी पृच्छति-हे परमकृपालो भगवन् ! केन कर्मणा नरो जात्यन्धो भवति ? २८)
उत्तर:-(भगवान् श्रीमहावीरप्रभुः कथयति-हे गौतम !)
गाथा-अदिट्ठ चिय दिलै, जो किर भासिज्ज धम्मनिरवेक्खो । सो जच्चंधो जायइ, गोयम ! नियकम्मदोसेणं ।। ४३॥
व्याख्या-यः पुरुषोऽदृष्टमपि वस्तु मया दृष्टमिति कथयति, यश्च पुनर्धर्मनिरपेक्ष धर्मापेक्षया रहितं वचनं किलेति निश्चयेन भाषते, स पुरुषो हे गौतम । निजकर्मदोषेण जात्यन्धो जायते ॥ ४३ ॥
द्वयोरुपरि एकामेव कथामाह
महेन्द्रपुरे गुणदेवनामा श्रेष्टी वसति । तस्य गायत्री नाम्नी भार्या, तयोबहुकालानन्तरं पुत्रोऽभूत् । परं स स्वकर्मयोगेन बधिरोऽन्धश्च जातः। पित्रा तस्य नाम न कृतं, तेन कश्चित्तं बधिर इति कथयति, कश्चिच्च तं अन्ध इत्यपि कथयति । एवं द्वाभ्यां नामभ्यां स प्रसिद्धो जातः । पित्रा मन्त्रयन्त्रतन्त्रादयो बहर उपचारास्तस्य कृते कारिताः। परं स मुखेन किंचिदपि | न ब्रूते। न च कर्णाभ्यां किंचिदपि शणोति । तदा तस्य पितरौ चिन्तयतो यदावाभ्यां पूर्वभवे किं पापं कृतं येनावयोरीदृशो वधिरान्धः पुत्रो जातः?
१ कामारंभपरिगहपरा भोगोवभोगस्थिणो, जे बंझवयधारिणो मुणिवरे हीलन्ति मोहातुरा । ते काणंधयकुंटमुटबहिरा दारिदियो रोगिणों, संसारे सुइरं सरन्ति सययं हीलिज्जमाणा जणां ॥१॥
號號號號號號號聯樂器跳继器鉴器鉴樂器继強跳跳號號號
॥७५॥
For Private And Personal Use Only