________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा । ॥७३॥
************
षडविंशतितमः प्रश्न:॥
इतस्तस्मिन्नवसरे कश्चिद्विद्याचारणश्रमण आकाशमार्गे गच्छंस्तयो रुदनं श्रुत्वा तत्रागतः। सर्वैरपि स वन्दितः। ऋषिणापि तभ्यो धर्मलाभो दत्तः । तत उपदेशदानानन्तरं मुनिना देदाय कथितम्-" त्वं शोकं त्यज, धर्म च भज, धर्मेण सर्वमपि शुभं भविष्यति । उक्तं च-"धम्मेण ऋद्धि धणदस्स तुल्ला, बुद्धि विसाला धवला य कित्ति । पुत्ता विणीया घरणी सुरूवा, मणिच्छियं लभइ सबमेव ॥१॥" (धर्मेणधिनदस्य तुल्या, बुद्धिर्विशाला धवला च कीर्तिः। पुत्रा विनीता* गृहिणी सुरूपा मन इप्सितं लभ्यते सर्वमेव ॥१॥ ___अथ श्रेष्ठी मुनये पृच्छति-" हे भगवन् । एताभ्यां द्वाभ्यामपि मे पुत्राभ्यां पूर्वभवे किं कर्मोपार्जितमस्ति, तत्कथ्यताम् ?" ततो गुरुः कथयति
अस्मिन्नेव नगरे इतस्तृतीये भवे विहणनिहणाभिधौ द्वौ कुलपुत्रावभूताम् । तयोरेको वृद्धभ्राता धर्मवान् दयावांश्च वर्तते । द्वितीयो भ्राता बनमध्ये गत्वा मृगाणां बालकान वियोजयति । पुनर्हसानां शुकानां च बालकान् पअरे क्षिपति । पुनरन्यम्मिन् ग्रामे च गत्वा मनुष्यपुत्राणां क्रयविक्रय करोति ।।
अथैकदा न कम्य'चश्वत्रियस्यकः पुत्र उत्पाटितः । क्षत्रियेण तद् नातं यदनेनेदं कर्म कृतमिति । तद् ज्ञात्वा क्षत्रि
१ दीर्घायुभव वण्यते ।द पुन नारकाणामपि, सन्तानाय च पुत्रवान् यदि पुनः तत् कुर्कुटानामपि । अर्थो म्लेच्छकुलाश्रिते नरपतौ सम्पूर्ण उद्धीक्ष्यते, तस्मात्सर्वसुखप्रदोस्तु भवतां श्रीधर्मलाभः श्रिये ॥१॥ सकलकुशलवल्ली पुष्करावर्तमेघो दुरिततिमिरभानुः कल्पवृझोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिः , स भवतु सततं वः श्रेयसे धर्मलाभः ॥२॥ दीर्घायुः स्वस्ति धनवान पुत्रवान् प्रमुखाः परे, आशीर्वादा अमी सर्वे, धर्मलाभस्य किंकगः ॥ ३ ॥
最游樂帶带带器柴柴號樂器跳跳跳器端继器跳跳端端端器卷
*
***
॥७३॥
*
**
For Private And Personal Use Only