SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री गौतमपृच्छा । ७२।। *विशतितमः 聚%那张张张吸器除那张琳张議。张路张宏张张张张张 अथ तद्वचसा देदेन सत्यवादिनामा यक्ष आराधितः । तं पूजयित्वा स्वयं चोपवासं कृत्वा नत्र स्थितः, कथितं च तेन तस्मै-भो यक्ष ! यदि त्वं मे पुत्रं दास्यसि तदैवाहमितो गमिष्यामि" । एवमेकादशमे उपवासे स यक्षः प्रत्यक्षीभूय तं |* | पञ्चविंशप्रत्येवमवादीत-"हे देद ! त्वं ममोपर्येव कथं कष्ट करोषि ? देवदानवव्यन्तरा अपि कृतं कर्म दरीकर्तु समर्था न भवन्ति । तितमपड्तवान्तरायकर्म विद्यते, अतस्तव भाग्ये पुत्रो नास्ति, तेनाहं ते कथं पुत्रं यच्छामि ?" देदेनोक्तम्-"चैत्त्वं पुत्रं मे नो *प्रश्नी ॥ दास्यसि तदाहं तव प्राणहत्यां दास्यामि"। तदा यक्षेणोक्तम्-"तव पुत्रो भविष्यति परं स शीघ्रं मरिष्यति" इत्युक्त्वा स यक्षोऽदृश्यो जातः। अथ देदो निजगृहे समागत्य स्ववनितायै कथितवान्-" देववरदानाद् तव पुत्रो भविष्यति" इत्युक्त्वा स किंचिद् हृष्टः किंचिच विषण्णः सन् पारणं कृतवान् । अथ तदिवसादारभ्य तस्य भार्यायाः कुक्षौ गर्भसंभवोऽभूत् । पश्चान्नवभिर्मा सैस्तस्याः पुत्रो जातः दशदिवसानन्तरं स्वजनान भोजयित्वा तेन तस्य पुत्रस्य तोला इति नाम प्रतिष्टितम् । ततोऽसौ देदः पुष्पफल युतस्तं बालकं गृहीत्वा यक्षं पूजयितुं यक्षालये गतः । यक्षस्तु कपाटौ दत्वा स्थितः । तेन बहव उपाया कृताः, परं कपाटौ नोद्घटितौ । ततो विषण्णोऽसौ पश्चाद्वलित्या स्वभवने समागतः। अथ तस्यामेव रजन्यां स बालो मृतः। तस्य शोकेन देददेमत्यौ मूर्छया भूमावपतताम् । तदा वृद्धो भ्राता देशलस्तावाश्वास्य तयोर्भोजनं कारयित्वा कथयति-"भो भ्रातः! इमे मदीया पुत्रास्त्वदीया एव ज्ञातव्याः” इत्यादि ॥७२॥ कथयित्वा तेन तयोः शोको दूरीकारितः। For Private And Personal Use Only
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy