________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥७१॥
***
*****
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाथा -जो होइ दयापरमो, बहुपुतो गोयमा भवे पुरिसो ।
व्याख्याः—यः पुरुषः परमदयावान् भवति, स पुरुषो हे गौतम! बहुपुत्रको भवति, तस्य पुरुषस्य बहवः पुत्रा जायन्ते, यथा पूर्वोक्तवर्द्धमानश्रेष्टिनो वृद्धपुत्रस्य देसलस्य बहवः पुत्राः संजाताः ।
अथ तयोर्देसलदेदयोः कथामाह
ऋद्धिवासाख्ये नगरे वर्द्धमानाभिध एको वणिक् वसति । तस्य द्वौ पुत्रावभूताम् । तयोरेको वृद्धो देसलाख्यः परमदयावान्, द्वितीयश्च देदाख्योऽतीव निर्दय आसीत् । पित्रा द्वावपि परिणायितौ । देसलस्य देविनी नाम्नी भार्या देदस्य च भाभार्यावर्तते। सलस्तु लक्ष्मीमुरार्जयति, धर्मं करोति सुखं च भुनक्ति । एवं स समये समये त्रिवर्गान् साधयति । देदस्तु धर्मं मुक्त्वा केवलमर्थमुपार्जयति सुखं च भुंक्ते ।
अथ क्रमेण देसलस्य बहवः पुत्राः संज ताः । ते चातीव मनोहरा गुणवन्तश्च बभूवुः । एवं सा देविनी निजपुत्रान् लालयति निजोत्संगे च स्थापयति । एवं तां निजपुत्रान् लालयन्तीं दृष्ट्वा देमती निजहृदये चिन्तयति – “ अरे । ममैंकोsपि पुत्रो नास्ति " । निजभर्तारं देदं प्रति च सा कथयति - ' अरे आवयोः पुत्रसुखं नास्ति । यत उक्तम्- 'गेहं पि तं मसाणं, जत्थ नदीसंति धूलिधूसरिया । उट्टंत पडंत रक्खडतो, दो तिन्निवि डिंभा पमोयकरा ॥ १ ॥ अतो हे स्वामिन् ! कमपि पुत्रोपयुपायं कुरु १""
१ धर्म १ अर्थ २ अने काम ३ नुं वर्णन कर. २ गृहमपि तस्मशानं, यत्र न दृश्यन्ते धूलिधूसरिताः । उत्तिष्ठन्तः पतन्तो रुदन्तो, द्वौ त्रयोऽपि डिम्भाः प्रमोदकराः ॥ १ ॥
For Private And Personal Use Only
****************
पञ्चविंशतितमपविंशतितमप्रश्नी ॥
॥७१॥