SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री गौतम पृच्छा ॥ * ॥४३॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुः कथयति - " हे श्रेष्ठिन् ! जीवेन कृतं शुभाशुभं कर्म अभुक्तं न प्रयाति । अस्मिन्नेव नगरेऽस्माद्भवात्ततोयभवे गुणधरमानधराभिधौ द्वौ वणिक्पुत्रावभूताम् । तयोर्गुणधरो देवगुरुसाधूनां विनये सावधान उपशान्तकोपश्चाभूत् । कदापि स दुर्वचनं न ब्रूते । अथ द्वितीयो मानघगे निर्गुणः सन् तपस्विनां धर्मवता च निन्दाकारी हास्यकारी च संजातः । एकदा वर्षाकाले एकं मासोपवासिनं मुनिं दृष्ट्वा स मानधरस्तस्य निन्दां कृतवान् " यथायं मायावी मुनिर्लोकान् केवलं यशोऽर्थमेव तपः करोति, नूनमयं पाखण्डी वर्तते ।" तदा तत्साधुसेवाकारक एको देवस्तत्रागत्य तं प्रति कथयति - "भो मानघर ! त्वं साधार्निन्दां मा कुरु " एवं तेन निवारितोऽपि स निजकुचेष्टां न त्यक्तवान् । तदा देवेन चाहतो मृत्वा प्रथमे नरके स नारकी जातः । ततो नरकान्निःसृत्यायं तत्र भोजदेवाभिधः पुत्रो जातः । एवं साधूनां निन्दाकरणात् स दौर्भाग्यवान् जातोऽस्ति ।" | अथ तौ द्वावप्येवंविधां गुरुवाणीं श्रुत्वा जातिस्मरणं प्राप्तौ । भोजदेवो निजपूर्वभवं दृष्ट्रात्मनो निन्दां कृतवान् । ततस्ते योऽपि केवलः पार्श्वे श्राद्धधर्मं स्वीचक्रुः । कालान्तरे तौ द्वावपि दीक्षां गृहीत्वा मृत्वा च देवलोके गतौ । तृतीयभवे च मोक्षं यास्यतः । यतः - गुण बोले निंदे नहि, ते सोभागी होय । अवगुण बोले परतणा, ते दुर्भागी होय ॥१॥ अतः कारणात्कस्यापि निन्दा न कार्या ॥ ॥ इति राजदेव भोजदेवयोः कथा समाप्ता ॥ (१२-१३) For Private And Personal Use Only ************ ******************* द्वादशमत्रयोदशमप्रश्नौ १ शुभ अने अशुभ कर्म तथा तेना फस्नुं वर्णन करवुं. २ सत्पुत्र तथा मिष्ट वचननुं वर्णन करवु ३ मुनिनी निंदानुं विस्तारथी ॥४३॥ वर्णन करवु
SR No.020339
Book TitleGautam Pruccha
Original Sutra AuthorN/A
AuthorPurvacharya
PublisherIndrachand Agarchand Seth
Publication Year1901
Total Pages141
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy