________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतम पृच्छा ॥ ॥३८॥
**********
दशमएकादशप्रश्नी॥
व्याख्या:-यः पुरुषः शयनासनवस्त्राणि पट्टिकासंस्तारकपादपुञ्छनकम्बलादीनि पुनर्भक्तं पात्रं पानीयं च साधुभ्यो हृदये हर्ष धृत्वा ददाति, स जीवो हे गौतम ! भोगवान् मुखभाग्भवति, धनसारवत् ।। २७ ।।
अथ धनसारकथामाह____मथुरायां नगर्यां धनसारनामा श्रेष्ठी वसति । स षट्षष्टिकोटीनामधिपतिः, परं महाकृपणो धर्मे व्ययं न करोति । गृहद्वारि ममागतं भिक्षाचरं दृष्ट्वेष्यों करोति, यः कश्चिन्मार्गयति तस्मै एव स कुष्यति, याचकं दृष्ट्वा दूरे भवति, प्राघूर्णकमायागतं दृष्ट्वा स्वयं पलायनं करोति । कोऽपि जनः प्रभाते तस्य नामापि न गृह्णाति । - अर्थकदा तस्य वर्धापनिकात्रयमित्यमागतम्-निधानगता द्वाविशतिस्वर्णकोटयोऽङ्गाररूपाः संजाताः. द्वाविंशतिकोटि| भृत्प्रवहणं च भग्नं, द्वाविंशतिकोटिभृतानि शकटानि च मार्गे चौरंगृहीतानि । विधं वृत्तान्तं श्रुन्वा स धनसारोऽचेतनः | शून्यहृदयो जातो भूमौ च पतितः। पश्चाअनैः स सचेतनीकृतः, परं शून्यमनाः सन् चतुष्पथे भ्रमति । लोकास्तस्य हास्यं कुर्वन्ति।
कियद्दिवसानन्तरं स दशलक्षभाटकेन प्रवहणं गृहीत्वा समुद्रमध्ये चलितः । कर्मवशात्प्रवहणं भग्नं, परं तेन पट्टकमेक लब्धं, तस्य सहायेन स समुद्रं तन्त्यिा तटे समागतः। अथ तत्रस्थः स एवं चिन्तयति-"मया सुपात्रे दानं न दत्तं, तथाऽन्यपानि दापित, अत एव मम लक्ष्मीर्गता। लक्षयात्रयो गतयः सन्ति, यथा-दानं भोगो नाश इति, मल्लक्ष्म्या
१ अहीं कृपणतानुं वर्णन करवू. मम्मण शेठ तथा श्रेणिकनी दासी कपिलानुं वर्णन करवु.
328********************
****
*****
॥३८॥
*
*****
**
For Private And Personal Use Only