________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www. kobatirth.org
*
*****
दशमएकादशप्रश्नौ ।।
* स्त्वेकैच गतिर्माता। श्री गौतम इतस्तत्र बने केवलिनं समरसृतं विज्ञाय स तं वन्दितुं गतः । तं वन्दित्वा श्रेष्ठी केवलिनं गुरुं प्रति पृच्छति-" हे | पृच्छा ।। भगवन् ! अहं केन कर्मणवंविधः कृपणो जातः ? मम लक्ष्माश्च कथं गता?" तदा गुरुः कथयति-"भो धनसार ! त्वं शृणु-* ॥३९॥ धातकीखण्डे भरतक्षेत्रे द्वौ भ्रातमै महद्धिमन्तावास्तां, तयोर्यो वृद्धभ्राता स उदारचित्तो गंभीरः सदा दानमतिश्च बभूव।
द्वितीयभ्राता च रौद्ररूपो महाकृपणश्वासीत् । अथ वृद्धभ्रात्रा स लघुभ्राता भिन्नः कृतः । दानमाहात्म्यतो वृद्धभ्रातुर्लक्ष्मीवः | धते. लघुभ्रातुश्च कृपणस्वभावतो लक्ष्मोखटति । तद् दुःखेन दुःखितो लघुभ्राता वृद्धभ्रात्रा सह कलहं करोति । तदा स| वृद्धभ्राता वैरा याद्दीक्षां गृहीत्वा तपसा च कतिचित्कर्मक्षयं विधाय स्वायुःप्रान्ते सौधर्मे सुरोऽभूत् । लघुभ्राताऽप्यज्ञानतपः कृत्वाऽमुरकुमारो जातः । ततश्युत्वा स लघुभ्रातृजोवस्त्वं धनसारोऽयं जातः, वृद्धभ्रातुर्जीवश्च देवलोकाच्च्युत्वा तामलिप्त्यां नगर्यां कस्यचिद् व्यवहारिगृहे पुत्रोभूय (पुत्र थइने) पश्चादीक्षां गृहीत्वा कर्मक्षयं च विधायायमहं केवल्यभूवम्, एवं पूर्वभवस्याहं तव भ्राताऽस्मि । त्वया तदा दानं न दत्तं, अन्तरायकर्म च बद्धं, तदुदयतस्तव धनं गतम्" ।
इति श्रुत्वा धनसारेण गुरोः समीपे इति नियमो गृहीतो 'यदद्यप्रभृत्यहं लाभाचतुर्थांशं धर्ममागें वितरिष्यामि' । एवं तेन यावजीवं नियमो लब्धः । अथ स श्रावकधर्ममङ्गीकृत्य तामलिप्त्यां च समागत्य व्यवसायं करोति । क्रमेण तस्य बही लक्ष्मीर्जाता । अथ स सुपात्रे दानं ददाति, पर्वतिथौ च पोपधवत' गृहाति ।
१ अहीं पौषधवतनुं वर्णन करवू
REET
************
॥३९॥
***
*
**
*
For Private And Personal Use Only