________________
Shri Mahavir Jain Aradhana Kendra
श्रीगौतमपृच्छा ॥ ॥१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्वतवासिमेघनादनामविद्याधरेणैको नैमित्तिकः पृष्टो " यन्मम पुत्र्याः को बरो भविष्यति ?” नैमित्तिकेनोक्तम्- " सुभूमनामा चक्री तव सुताया वरो भविष्यति ।" तदा तेन विद्याधरेण सुभ्रमस्य शुद्धिं कृत्वा तेन सह निजपुत्री परिणायिता । तया सह सुखानि भुञ्जानः स तत्रैव भूमिगृहे तिष्टति ।
अथैकदा प्राप्तयौवनेन तेन निजमाता पृष्टा - " हे मातः ! पृथ्वी किमेतावत्प्रमाणैव वर्त्तते ?" तदा मात्रोक्तम् - " पुत्र ! आवां तु शत्रुभयतोऽस्मिन् तापसाश्रमे भूमिगृहमध्ये एव तिष्टावः । परशुरामेण तव पितरं हत्वा हस्तिनागपुरराज्यं गृहीतमस्ति" इत्यादि वृत्तान्तं श्रुत्वा सुभूमः क्रुद्धः सन् भूमिगृहान्निःसृत्य निजश्वशुरं मेघनादं सार्थे गृहीत्वा हस्तिनागपुरे परशुरामकारितायां सत्रशालायां समागतः । तत्र च तस्य दृष्टिपातात्तदंष्ट्रा भृतः स्थालः क्षैरेयीभृतः सञ्जातः । सुभूमेन सा सर्वापि क्षैरेयी भक्षिता । तद् ज्ञात्वा परशुरामेण चिन्तितं - नूनं मम हन्ताऽयमेव ।
ततः परशुरामस्याज्ञया तत्सेवकास्तं हन्तुं समागताः परं मेघनाद विद्याधरेण ते सर्वेऽपि पराजिताः । तद् वृत्तान्तं श्रुत्वा सक्रोधः परशुरामस्तत्र समागतः । परं तत्र सुभूमं दृष्ट्वा स प्रतापरहितो जातः ।
इतः सुभूमेन तं स्थालमुत्पाटय परशुरामं प्रति क्षिप्तः । तत्क्षणं चक्ररूपीभूतः स स्थालः परशुरामस्य मस्तकमलुनात् । एवं सुभूमश्चक्री जातः । ततो वैरं स्मृत्वा तेनैकविंशतिवारान्निर्ब्राह्मणी पृथ्वी कृता । चक्रादिरत्नबलेन तेन षट्खण्डानि साधितानि, तथापि तस्य लोभोदधिः १ परां वृद्धिं प्राप । ततोऽसौ धातकीखण्डस्य भरत क्षेत्र साधनार्थं लवण समुद्र मध्ये
१ अहीं लोभादि कषायोनुं वर्णन कखुं. " न श्वेताम्बरवे न दिगम्बरत्वे, न च तत्त्ववादे न तर्कवादे । न नैयायिके न मीमांसके च, कषायमुक्तिरेव किल मुक्तिः ॥ १ ॥ "
For Private And Personal Use Only
प्रथमप्रश्नः ॥
॥१३॥