________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥१२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतः कश्चिदेको विद्याधरोऽतीसाररोगपीडितस्तस्मिन्नाश्रमे समागतः । रामेण तस्य परिचर्या कृता । ततो जातसमाधिना तेन विद्याधरेण रामाय परशुविद्या दत्ता । तेनापि सा साधिता, तत्प्रभावाच्च तस्याग्रे कोऽपि परश्वादिशस्त्रधारी स्थातुं न शक्नोति ।
कदा सा रेणुका निजभगिन्या मिलनार्थं हस्तिनागपुरेऽनन्तवीर्यराज्ञो गृहे समागता । तां मनोज्ञरूपां दृष्ट्वाऽनन्तa: कामविहलो जातः । क्रमेण परस्परप्रीत्युद्भावतोऽनन्तवीर्येण सा भुक्ता । ततश्च जातगर्भाया रेणुकायास्तत्रैवैकः पुत्रो जातः! अथान्यदा तत्पुत्रता रेणुका जमदग्रिना स्वाश्रमे समानीता । एतदकार्यतो जातक्रोधेन रामेणानन्तवीर्यः परशुना हतः। तद् ज्ञात्वाऽनन्तवीर्यपुत्रकीर्तिवीर्येण पितुर्वैरात्तदाश्रमे आगत्य जमदग्निर्हतः । तदा क्रुद्धेन परशुरामेण कीर्तिवीर्यै हत्वा हस्तिनागपुरस्य राज्यं गृहीतम् ।
इतः कीर्तिवीर्यस्य सगर्भा वनिता भयभीता ततो निर्गत्य वने तापसानामाश्रमे गता । तापसैरपि सा भूमिगृहे स्थापिता । तत्र तस्याश्चतुर्दशस्वप्न सूचितः सुभूमनामा पुत्रो जातः । अथ परशुरामेण भ्रान्त्वा भ्रान्त्वा परशुप्रभावेण क्षत्रियान् मारयित्वा सप्तवारान् निःक्षत्रिणी पृथ्वी कृता, तेषां हंष्ट्राभिश्च स्थाल एको भृत्वा स्थापितः ।
कदा परशुरामेण नैमित्तिकः पृष्टो-" यन्मम मरणं कस्य हस्ताद्भविष्यति " इति । तदा नैमित्तिकेनोक्तम् - " यस्य far दंष्ट्राः क्षरेयीरूपा भविष्यन्ति, यश्च तां क्षैरेयीं भोक्ष्यते स पुरुषस्तव हन्ता भविष्यति " इति । तदा परशुरामेण तं शत्रु ं ज्ञातुमेका सत्रशाला स्थापिता, मुक्तश्च तत्र स क्षत्रियदंष्ट्राभृतः स्थालः सिंहासनोपरि ।
For Private And Personal Use Only
*****
प्रथम
प्रश्नः ॥
॥१२॥