________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री गौतमपृच्छा। ॥१०॥
पञ्चत्रिशत्तमषडत्रिशतम: प्रश्नौ॥
瑞器资费涨涨染強聯亲张器器蒂蒂蒂蒂蒂器懿带带带张继器
स्थानके तेन सार्दै नीतः। तदा तस्य बहुभोजनं दृष्टं, उत्सगसमयेऽपि च तस्य सुदृढपुरीषं दृष्ट्वाऽदृणमल्लेन स मल्लकलां ग्राहितः । फलहीमल्ल इति च तस्य नाम कृतम् । पश्चात्तं फलहीमल्लं सार्थे गृहीत्वा सोट्टणमल्लः पुनरपि सोपारकनगरे मल्लयुद्धं कर्तु समागतः । तत्र राजसभासमक्ष फलहीमल्लेन मत्सीमल्लसाधै बहुविधं युद्धं कृतम् । एवं तौ द्वावपि युद्धं कृत्वा तद्दिने तु निनिजस्थाने गतौ । तदाऽट्टणमल्लेन फलहीमल्लं प्रति पृष्टम्-" हे वत्स! तव शरीरे क्व क्व गाढमहारा लग्नाः सन्ति तत्कथय ? यथा तान् सजीकरोमि" । तत् श्रुत्वा फलहीमल्लेन निजप्रहारा दर्शिताः । तदाऽदृणमल्लेन ते सर्वेऽपि तस्य प्रहारास्तैलाभ्यंगनादिना सज्जीकृताः। ___अथ राज्ञा मत्सीमल्लायापि तथैव पृष्ट, परं तेन लञ्जया स्वप्रहारा न दर्शिताः । कथितं च-'मम तु क्यापि प्रहारो न लमोऽस्ति । अथ द्वितीयदिने पुनरपि तयोर्मल्लयुद्धं जातं, तदा मत्सीमल्लो हारितः । फलहीमल्लस्य च बहु यशो जातं, नृपाच तेन बहु धनं लब्धम् । एवं सत्यकथनतः फलहीमल्लः सुखी जातः । एवं यः कश्चिद् गुरोरग्रे निजं पापं सत्येनालोचयति सोऽदृणमल्लफलहीमल्लवच्च सुरवी निरोगी च भवति । यः कश्चिल्लजया गुरोरग्रे सत्यं न वक्ति स मत्सीमल्लवद् दुःखो भवति । उक्तं च-"पाप आलोवे आपणां, गुरु आगल निःशंक । निरोगी सुखिया हुवे, निर्मल जिसो शशांक ॥१॥"
॥ इत्यदृणमल्लकथालोचनोपरि ॥ अथ सप्तत्रिंशत्तमपश्नोत्तरमाह
प्रश्न:-( अनेकलब्धिभण्डारः श्रीगौतमस्वामी पृच्छति-हे दयासागर ! हे कृपानिधे ! हे देवेन्द्रवन्ध ! स एव
器端部带路路路路器跳跳跳够继強號染染強強強強聯盟
॥१०॥
For Private And Personal Use Only