________________
Shri Mahavir Jain Aradhana Kendra
श्रीगौतमपृच्छा ॥
॥ १०१ ॥
जीवः कथं हीनाङ्गो भवति ? ( ३६ )
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरः- ( परमकृपालुर्भगवान् कथयति - हे गौतम! )
गाथा - लहुहत्थो अधुत्तो, कूडतुलाकूडमाणभंडेहिं । ववहरह नियडिबहुलो, सो हीणंगो भवे पुरिसो ॥ ५२ ॥
व्याख्या - यः पुरुषो धूर्तः सन् हस्तलाघवेन कूटतोलनेन कूटभापभरणेन च तथा कुंकुमकर्पूरमंजिष्टादिभेलनेन च व्यवसायं करोति, पुनर्मायां च करोति, इति पापकरणेन स पुरुषो मृत्वा भवान्तरे हीनांगो जायते धनदत्तपुत्रवत् ॥ ५२ ॥ अत्र सा धनदत्त पुत्रकथा प्रोच्यते
क्षितिप्रतिष्ठितनगरे ईश्वरनामा श्रेष्ठी वसति । तस्य प्रेमलाभिघा भार्या वर्तते । तस्य श्रेष्टचत्वारः पुत्राः सन्ति । श्रेष्टना पूर्व ते सर्वेऽपि पाठिताः, पश्चाच्च परिणायिताः । स ईश्वरो वृद्धवयस्त्वाद् गृहे एव तिष्टन् व्यवसायं करोति, परं कृपणत्वाच किंचिदपि दानं न ददाति । एवं स किंचिदपि पुण्यं न विधत्ते ।
I
अथैकदा सत्वा गृहगवाक्षे स्थितोऽस्ति । अस्मिन् समये एकोऽष्टवार्षिको मुनि - रीर्यासमितिसाधकस्तस्य गृहद्वारि आहारार्थं प्राप्तः । तदा तस्य श्रेष्टिपुत्रस्यैका लघ्वी वधूस्तं मुनिं प्रति कथयति - "चेलण १ खरी सत्रार, धम्मिणि वार न जाणीये । १ भाषान्तरमां आ प्रमाणे दूहो छे: - चेला खरी सवार, धामणी वार न जाणीए । तुम ल्यो अनथी आहार, अम्ह घर वासी
जीमीए ॥ १ ॥
For Private And Personal Use Only
*****!
********
सप्तत्रिंशत्त
मप्रश्नः ॥
॥१०१॥