________________
Shri Mahavir Jain Aradhana Kendra
श्री गौतमपृच्छा ॥ ॥८९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रियोक्तम् - " हे राजन् ! मया यक्ष आराधितस्तेन च संतुष्टेनैवं कृतमस्ति " । तत् श्रुत्वा राज्ञा चिन्तितम् - " यद्देवेन कृतं तदन्यथा नैव भवति " इति विचार्य तयोः सम्बन्धिन आकार्य राज्ञोक्तम् – “ योऽयमुदन्तः समुद्भूतः स देवेनैव कृतोऽस्ति, अतः कैरपि शेषो नैव कार्यः ।
अथ तौ द्वापि मनसि सन्तुष्टीभूय स्वस्वगृहे स्थितौ । अस्मिन्नवसरे चतुर्ज्ञानधरो धर्मरुचिनामा मुनिस्तत्र समागतः । तदा सर्वेऽपि लोकाः सपरिवारास्तं वन्दितुं गताः । गुरुणापि तेभ्यो धर्मदेशना दत्ता । धर्मदेशनानन्तरं धनदत्तेन गुरुभ्यः पृष्टम् - "हे भगवन ! केन कर्मणाहं कुब्जो भूतः, इयं च मम भार्या धनश्रीरपि केन कर्मणा ममोपर्यधिकस्नेहवती जाता ? पुनरस्माकं लक्ष्मीभोगसुखादिकं च कथं जातम् १ तत्कथयत " ।
मुनिनोक्तम् - " शृणु पूर्वभवे युवां धनधीरूनामानौ स्त्रीभतरात्रभूताम्। वृषभोष्ट्राद्युपर्यंतभारभरणेन त्वं कुब्जो भू | पुनस्तस्मिन्नेव भवे त्वया साधवे दानं दत्तं तन्माहात्म्यात्त्वया लक्ष्मीर्भोगाव लब्धाः । पूर्वभव स्नेहादस्मिन् भवे - ऽपि युवयोरधिकस्नेहः परस्परं बभूव । " तां वार्तां श्रुत्वा स जातिस्मरणं प्राप्य सम्यक्त्वमूलं श्राद्धधर्मं च प्रतिपद्य निजगृहे गतः । ततो धर्ममाराध्य सुपात्रे च दानं दत्वा मृत्वा च स देवलोके देवोऽभूत् ।
॥ इति धनदत्तधनश्रियोः कथा ॥
अथ द्वात्रिंशत्तमप्रश्नोत्तरमाह -
प्रश्नः - ( अथ श्रीगौतमस्वामी पृच्छति - हे कृपासागर ! हे तीर्थेश्वर ! हे भगवन् । केन कर्मणा जीवस्य दासत्वं
For Private And Personal Use Only
******
एकत्रिंशतमप्रश्नः ॥
॥८९॥