________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सद्गुरुमुखाजिनागमश्रवणे च प्रव्रज्याशिखरिशिखरारोहः सुतरामसम्मोह इति ॥ ४१ ॥ तथा-'सीहत्ता निक्खंतो सीहत्ता एव विहरिओ जो उ' त्ति, अत्र तुशब्दस्य चार्थत्वात्-यच्च सिंहतया निष्क्रान्तः सिंहतया च विहृत इति, अयमभिप्राय:-किल प्रव्रज्यायां विहारे चत्वारो भङ्गाः सिद्धान्तेऽभिहितास्तद्यथा
"सीहत्ताए निक्खंतो सीहत्ताए विहरइ १, सीहत्ताए निक्खतो सियालत्ताए विहरइ २, सियालत्ताए निक्खंतो सीहत्ताए बिहरइ ३,
सियालत्ताए निक्खतो सियालत्ताए विहरह।" तत्र ये केचन महासत्वाः स्वरसत एवाविर्भूतवैराग्या निष्कपाया जितेन्द्रिया दुस्सहक्षुत्पिपासादिद्वाविंशतिपरीषहोपसवर्गविसहना दीनवृत्तित्ववितीर्णविस्तीर्णवक्षःस्थलाः स्वच्छत्वसौम्यत्वादिगुणगणालङ्कृतशरीराः सन्तः क्षान्त्यादिभेददशकासेवनरूपां भागवतीं दीक्षामभ्युपेत्य विशिष्टविशिष्टतरचारित्रभावनोल्लासवशीकृतचेतसः स्वजीवितपर्यन्तं यावत्ता निर्वाहय-16 न्ति ते तीर्थकच्चक्रभृन्महापुरुषगणधरप्रमुखाः प्रथमभङ्गके द्रष्टव्याः १।
ये च पूर्व 'किमनेनानेकानर्थनिवन्धनेन दुर्गतिपातहेतुना राज्येन ?, निर्विष्णोऽस्म्येतस्माचातुर्गतिकदुःखप्रचुरात् संसाराद् , बहुविधासमञ्जसकुलगृहान् धिग्विषयान्' इत्यादराद्दीक्षां प्रतिपद्य पश्चात्प्रमादवशात्प्रादुर्भवद्विषयाभिलाषोत्कलिकाक
KARECRC4-4
4-१०
For Private and Personal Use Only