________________
Shri Mahavir Jain Aradhana Kendra
गणधरसाशतकम् ।
॥ २१ ॥
www.kobatirth.org
' अकगुरुनिह्ववेणं' एतत्पदं पूर्वगाथायां संबध्यते । तथा 'सूरिमयासम्मि जिणमयं सोउं परिवजिअ सावजं पद्मजगिरिं समारूढो' अत्र पूर्वतोऽग्रतो वा समाकृष्य 'यः' इति योज्यते, यः प्रव्रज्यागिरिं प्रव्रज्यैव = अर्हद्दीक्षैव गिरि:- शैलस्तम् । अयमभिप्रायः = यथा दुर्बलगात्रैर्निः सवैर्दृष्टिविकलैः पङ्गुभिः पादभङ्गभीरुभिः पुरुषैम्लेंच्छादित्रासाक्रान्तैरपि न दुर्गपर्वतशिरस्यध्यारोढुं शक्यते, तथा अनिर्जितेन्द्रियैर्विशिष्टमनः प्रणिधानवर्जितैः सम्यग्दर्शनदुरापास्तैः कौतुकनाटकादिनिरीक्षणाक्षिप्तचित्तैः प्राणिभिर्जन्मजरामरणरोगशोक दारिद्रयादिदुः खचक्रावष्टब्धैरपि न स्वर्णाखर्व्वपर्वत दुईहपश्च महाव्रतमहाभारः सम्यग्वोढुं पार्यत इति । समारूढः=अध्यासितः परितः = नामस्त्येन त्रिविधत्रिविधेनेत्यर्थः, वर्जितं त्यक्तं सावद्य= सपापं यजनयाजनवेदाध्ययनाध्यापना- प्रासुकजलस्नान = वीवाह करणकारणक्षेत्र कर्षण - नक्षत्रतिथिसूचन-मृषा भाषणाऽदत्तादान मैथुनसेवनपरिग्रहविधान - रात्रिभोजनाद्यनुष्ठानं यत्र प्रव्रज्याग्रहणे तत्परिवर्जितसावद्यम् एवं यथा भवति । यदि वा परिवर्ज्य - परित्यज्य, किं तत् कर्म्मतापनं १ सावद्यमित्यर्थः सर्वसावद्ययोगपरिवर्जनरूपत्वात्प्रव्रज्यायाः । किं कृत्वा प्रव्रज्यागिरिं समारूढः ? तत्राह - श्रुत्वा = आकर्ण्य, कम् १, जिनमतं =जिनागमं क्व ? सूरिसकाशे = प्रस्तावात्तोसलिपुत्राचार्यसन्निधौ । अयमाशयः - जिना - गमश्रवणमन्तरेण न विशिष्टज्ञानसद्भावः तदभावे च न भवव्रततिपरशुसमान शुभध्यानसमुल्लासः, तदभावे च व्यर्थमेव प्रव्रज्याग्रहणं, यदुक्तम्
" मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो- र्निम्र्माणं गुणदोषभेदकलना तेषां न सम्भाविनी । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां, सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १ ॥ "
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
श्री आर्यरक्षिता
चार्यः ॥
॥ २१ ॥