________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Si Kailasagarsuri Gyarmandie
आसां व्याख्या-तम् आर्यरक्षितक्षमाश्रमणम्-आर्यरक्षिताभिधानक्षान्तितपोधनमहं वन्दामीति संटकः। यत्तदोर्नित्याभिसम्बन्धात्तं वन्दे यः, किम् ? इत्याह-यो निजजनन्याः स्वमातुर्वचनकरणे 'किं त्वं दृष्टिवादमधीत्यागतो येनाहं सन्तुष्यामि ?' | इत्युक्त्योपदिष्टदृष्टिवादादेशविधाने उद्यतः सोद्यमः सादरः सप्रयत्न इति यावत् , दृष्टिवादपठनार्थ-द्वादशाङ्गाध्ययनार्थ तोसलिपुत्राख्यानामाचार्याणामन्ते-समीपे गतः-प्राप्तः । कथं गतः ? ' ढड्डुरसड्ढाणुमग्गेण ' ढड्डरश्राद्धानुमार्गेण ढडराभिधानश्रावकानुवर्मना ॥ ३८ ॥ श्राद्धानुसारतो ढड्डरश्रावकस्यानुकरणेन विहितम् अनुष्ठितं सकलमुनीनां समस्तसाधूनां. वन्दनं पश्चाङ्गप्रणिपतनं येन स तथा । 'चः' समुच्चये, यो गुरुणा-तोसलिपुत्राचार्येण अकृतानुवन्दना=अविहितपश्चाद्वन्दनः श्रावकस्य श्रमणोपासकस्य य एवम् इत्थम् इह-जगति भणितः-प्रतिपादितः ॥ ३९ ॥ यद्भणितस्तदाह-को धर्मगुरुः-धर्माचार्यों युष्माकं-भवताम् अत्रभारते क्षेत्रे ? भूयसामाचार्याणां सम्भवात् , इति पृष्टे 'तेणावि विणयपणएणं' ति, अत्र 'तेणावि ' इति पाठोऽशुद्ध इव लक्ष्यते, 'तं वन्दामी' त्यग्रतस्तच्छब्दार्थसाङ्गत्यात्तदेति तदनन्तरं भूयोऽपि बहुशो यच्छन्दनिर्देशाच्च ततः 'जेणावि ' इति न्याय्यः पाठः । येन च ' अपि' शब्दस्य 'चा'थत्वात् , विनयेन-अहङ्कारपरिहारेण प्रणतो नम्रस्तेन गुरोः=तोसलिपुत्रस्य निदर्शितः-नितरामङ्गुलीभ्रूसज्ज्ञादिना चक्षुर्विषयीकृतः सः पूर्वनिर्दिष्टः, | कोऽसौ ? ढङ्गुरश्राद्धो विदग्धेन-विचक्षणेन ॥ ४० ॥ अत एव कीदृशेन ? अकृतगुरुनिह्ववेन अविहितस्वधर्माचार्यापलापेन, यतो यस्य यस्माद्धाभ्युपगमस्तस्य स एव गुरुः, तथा चोक्तम्
" जो जेण सुद्धधम्म-मिठाविओ संजएण गिहिणा वा । सो चेव तस्स जायइ, धम्मगुरू धम्मदाणाओ ॥१॥"
For Private and Personal Use Only