________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| निपातः प्राकृतत्वात् ततो विहिता-कृता कामाने: मदनवहरुद्दीपनत्वेन समीरणरूपा-बायुसमाना प्रार्थनावचनानाम्' हे निजरूपनिर्जितकन्दर्परूप ! सौभाग्यनिधे ! लावण्यसमुद्र ! सौन्दर्यनिधान ! प्रसीद परिणय मां, त्वदेकजीविता त्वदेकशरणाऽहम्' इत्यादिरूपाभ्यर्थनावाक्यानां घटना=रचना यस्या सा तथा तया । यदि वा-कामाग्निसमीरणरूपा विहिता तादृकस्नेहस्योचिताऽनुरूपा प्रार्थनावचनघटना यस्या सा तथा तया ।। ३१ ।। तथा लष्टा-मनोहरा अङ्गप्रतिष्ठा=शिरोललाटपट्टनेत्रोःस्थलपयोधरभुजायुगलहस्तनखोरुजङ्घानितम्बस्थलाद्यवयवसंस्थानं यस्याः सा तथा तया। विशिष्टा-उत्कृष्टा चेष्टा लीलालोकितजल्पितस्मितगतभ्रूनर्तितामूयितक्लान्तोत्कम्पितसीत्कृतप्रमुदितश्लिष्टादिव्यापारो यस्याः सा तथा तया । पुन: कथम्भूतया ? यस्य गुणगणश्रवणात्-रूपलावण्यसौभाग्यादिचरितोक्तस्वाङ्गोत्थितधर्मसमूहाकर्णनाद्दर्शनोत्कण्ठितम् अवलोकनोत्सुकं मनो-हृदयं यस्याः सा तथा तया दर्शनोत्कण्ठितमनसा ॥ ३२ ॥ तथा निजजनकेन स्वपित्रा दत्ता-वितीर्णा धनकनकराशि: स्वर्णरत्नादिपुञ्जो यस्याः सा तथा तया, कन्यया कुमार्या, किंबहुना धणि अत्यर्थ गुणाढ्यया-सकलगुणसमृद्ध्या ॥३३॥ तथा ज्वलनगृहात हुताशनभवनात् माहेश्वर्यां नगर्यां कुसुमानि-पुष्पाणि 'जेणमाणित्ता' येन मकारोऽलाक्षणिकः, आनीय-उपढौक्य 'तिवन्नियाण' त्रैवर्णिकाणां शाक्यानां मानो-दो मलितो मर्दितो दलितः, सङ्घोन्नतिः=1 शासनप्रभावना विहिता-चक्रे ॥३४॥ तथा यस्य च भगवतो वैरषेणो नाम्ना शिष्यः अन्तेवासी जाता=समुत्पेदे ! कीदृशः? दूरोत्सारितवैरः विप्रकृष्टाप्रसारितविरोधा, बहुशिष्या प्रभूतनागिलचन्द्रोदेहिकादिविनेयः 'जाओ' जातो-गीतार्थः जगति-लोके जातानुसारिगुणः-जातो गीतार्थस्तस्य चेदं स्वरूपम्
SCRECRORSCSC-C404
For Private and Personal Use Only