________________
Shri Mahavir Jain Aradhana Kendra
गणधरसा
ईशतकम् ।
॥ १९ ॥
www.kobatirth.org
" गीयं भन्नइ सुत्तं, अत्थो पुण होइ तस्स वक्खाणं । गीयरस य अत्थस्स य, संजोगा होइ गीयत्थो ॥ १ ॥ "
ततश्च जातं = गीतार्थम् अनुसरन्ति = अनुगच्छन्तीत्येवंशीला जातानुसारिणस्तादृशा गुणा यस्य स तथा । अयमभिप्रायःकश्चिद्गीतार्थो भवति परं तदनुसारिगुणो न भवति, तथा च श्रूयते सिद्धान्ते अङ्गारमर्दको नाम द्रव्याचार्यों गीतार्थो न चासौ गीतार्थानुसारिचरित इति ।। ३५ ।। तथा कुङ्कणविषये कुङ्कणाख्ये देशे सोपारके पत्तने सुगुरूपदेशतः श्रीवैरस्वामिनिजधर्माचार्यवाक्यात् येन वज्रसेनक्षुल्लकेन कथयित्वा = निगद्य सुभिक्षम् = अन्नप्राचुर्यं [' अविग्धं ' अविघ्नम् | ] विहितः= कृतः सङ्घो = ज्ञानदर्शनचारित्ररत्नत्रय पवित्रित साधु साध्वीश्रावक श्राविकारूपों गुणैः- मूलोत्तरलक्षणैर्महाघ- महामूल्यो दुर्लभ इत्यर्थः ॥ ३६ ॥ यस्य च शिष्येण वज्रसेनेनैवं चक्रे तमहं श्रीवस्वामिनं वन्दे । इति गाथा चतुर्दशक संक्षेपार्थः ॥ २४-३७ ॥
“ पंचसु ससु वरिसाणमइगएसुं जिणिंदकालाओ । बइरो सोहग्गनिही, सुनंदगमे समुत्पन्नो ॥ १ ॥
अंगोवंगाई अहिजिऊण विजापभावगो जाओ। सिश्विहरसामिसूरी, जुगपवरो भारहे वासे || २ || "
अत्र चरिते वर्षत्रितयमस्य गृहस्थपर्याय उक्तः, शास्त्रान्तरेऽष्टौ ८ वर्षाणि गृहस्थपर्यायः, चतुश्चत्वारिंशद्वर्षाणि ४४ दीक्षा पर्यायः, षट्त्रिंशद्वर्षाणि ३६ युगप्रधानपदम्, अष्टाशीतिवर्षाणि ८८ माससप्तकं ७ दिनसप्तकं ७ च सर्वायुः ॥
अथ तत्पट्टोदयाचलचूलाखण्डमण्ड नचण्डररिंम श्री आर्यरक्षिताचार्यं किञ्चिचरितोत्कीर्त्तनपूर्वकमभिष्टुवन् गाथा
दशकमाह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीवज्रस्वामिनः।
॥ १९ ॥