________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणधरसाईशतकम् ।
॥१८॥
सुमहा-सुशोभनं महः-तेजः-अतिशयप्रभावो यस्याः सा सुमहा, 'पइन्न' त्ति प्रकीर्णावर्णव्यतिक्रमेण निक्षिप्ता । | श्रीवजउपदेशमालाऽऽवश्यकवृत्यादौ " महापरिनज्झयणाओ आगासगामिणी विजा उद्धरिआ।" इत्युक्तम् , हेमाचारप्येवमे- स्वामिगुणवोक्तम्-" महापरित्राध्ययनादाचाराङ्गान्तरस्थितात् । विद्योदः भगवता संघस्योपचिकीर्षुणा ॥१॥” इति, परमत्र यत् |8| स्तुतिः॥ " पूर्वात् " इत्युक्तं तत् , अतिशयनिधानं पूर्वाण्येव ततस्तेभ्य एव महापरिज्ञाध्ययने सा पृष्ठतोऽग्रतश्च वर्णान् विधाय पूर्वाचार्यैर्विक्षिप्ता । ततश्च दशपूर्वाणि भगवतैवाधीतानि, पदानुमारिलब्ध्या अग्रेतनपूर्वगतेब सोद्धृता, या च यत्र वर्तते सा तस्मादुद्धृता, इत्यभिप्रायेण, इति वयं मन्यामहे, अन्याभिप्रायं तु श्रुतधरा जानते । कीदृशेन भगवता ? सर्वथा प्रशमरसिकेन=सर्वप्रकारेणोपशमरसास्वादलम्पटेन । यदि हि प्रशमरसिको न स्यात्तदा कथमादितो जन्मकालसमनन्तरमेव भावतः प्रव्रज्यामङ्गीचकारेति ॥ २९ ॥ तथा-दुष्काले दुर्भिक्षे द्वादशवार्षिके द्वादशवर्षप्रमाणे सीदति तथाविधशरीराधारपिण्डाभावेन कृशाङ्गीभवति 'सप्तमीलोपःप्राकृतत्वात् ' सङ्घ श्रमणसमृहे 'सीदत्सङ्घ' इति, समस्तं वा, विद्याया बलं-शक्तिर्विद्याबलं तेन आनीतम् उपढौकितम् , अन्न-पिण्डसमाहारो येन अन्यक्षेत्रात्-दवत्तिदेशान्तरात् ॥ ३० ॥ तथा-यो न मूर्छितो न लोभं गतः न मोहितस्तुच्छमपि=मनागमपि यौवनेऽपि-उदग्रतारुण्येऽपि सति । कया? इत्याह-श्रेष्ठिसुतया सार्थवाहपुत्र्या, कीदृश्या ? सुरराजः शक्रस्तस्य चापः कोदण्डस्तेन विभ्रमः सादृश्यं ययोस्ते सुरराजचापविभ्रमे, तादृशी ये ध्रुवौ% नेत्रोपरि वक्ररोमराजीरचनाविशेषौ, ते एव धनुः शरासनं तेन सुरराजचापविभ्रमभ्रधनुषा मुक्ते नयने एव बाणौ यया सा तथा तया । पुनः कीदृक्षया ? ' कामग्गिसमीरणविहिअपत्थणावयणघडणाए' अत्र विहितशब्दस्य पूर्वनिपाते प्राप्ते मध्ये
M
For Private and Personal Use Only