________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अध्ययनं कृतो-विहितः कर्णाहतकेन दृढं निश्चलं वर्षसहस्रेणाप्यविस्मृतेः येन भगवता साध्वीभ्यः संयतीभ्यः सकाशात् । कीदृशेन सता ? ' तस्सज्झायज्झयणुञ्जएणं' ति, तासाम् आर्यिकाणां स्वाध्यायश्च निशीथिन्यादौ गुणनं च, अध्ययनं चपाठश्च, तत्स्वाध्यायाध्ययने, तयोरुद्यतेन-सावधानेन । तथा वयसा-अवस्थया षड्वार्षिकेण-वर्षषटप्रमाणेन । 'वयसा छवरिसेणं' इति वदतोऽस्य प्रकरणकर्तुरयमाम्नायाभिप्रायो लक्ष्यते-यदुत षड्वार्षिक उपाश्रयानिर्गतः, अन्यत्र तूपदेशमालावृत्यादौ | " अदुवरिसो अज्जियापरिस्सयाओ निकालिओ" इति दृश्यते, इत्यत्र तचं बहुश्रुता विदन्तीति । तथा श्रीआर्यसिंहगिरिणा=
आराद्यातः पापेभ्य इत्यायः, स चासौ सिंहगिरिश्च तेन, गुरुणा-धर्माचार्येण विहितः कृतो गुणानुरागेण विनयप्रवृत्तित्वप्राज्ञत्व-वापाटवत्व-सुरूपत्व सुभगत्वादिगुणबहुमानिना लघुरपि अल्पवया अपि यो गुरुः वाचनाचार्यों ज्ञानदानतः श्रुतवितरणात् शेषसाधूनाम्-आत्मव्यतिरिक्तमुनीनाम् ।।२७।। तथा उज्जयिन्यां नगर्यां गृहीतव्रतः-उपात्तदीक्षो लघुः बालो गुह्यकापूर्वभववयस्यामरैः वर्षतिजलं मुश्चति धाराधरे इति गम्यते, यः सुयतिरिति-सुसाधुरयमिति वितळ निमन्त्र्य-'भगवन् ! प्रसादं कृत्वाऽस्मदाहारग्रहणेन निस्तारयास्मान् इत्यामन्त्र्य परीक्षितः-पुष्पफलाहारप्रतिषेधे 'सुसाधुरय 'मिति निश्चितस्ततः प्राप्ततद्विद्यः-लब्धजृम्भकामरवितीर्णवैक्रियलब्धिविद्यः ।। २८ ।। तथा उद्धृता-इतस्ततो विक्षिप्ता सती संघटिता येन भगवता, कीदृशेन सता ? पदानुसारिणा-पदानुसारिलब्धिमता, का उद्धृता ? गगनगामिनी-आकाशगामिनी विद्या-देवताधिष्ठिता वर्णपद्धतिः, कस्मा? दित्याह-' सुमहापइन्नपुवाओ' त्ति पूर्वात्-नानाविधातिशयोपेतग्रन्थात् कीदृशी विद्या ?
१' कहतकेन '-कान से सुन कर अभ्यास करने से ।
For Private and Personal Use Only